________________
*૭
1
ब्रह्मामृतोमृतम् (बृ. ४ । ४ । १७ ) इति । यद्यप्यत्र पञ्चजनाः पञ्चोच्यन्ते न पञ्चानां पञ्चगुणत्वम् । समासानुपपत्तेः । तथाहि । आद्यः पञ्चशब्दः संख्यावाची संख्येयवाची वा । आद्ये पञ्चसंख्याया एकत्वान्न षष्ठी - समासः । संख्यायां संख्याभावाच्च | संख्येयपरत्वे द्वितीयस्य संख्यात्वे ५ पञ्चत्वमेव पूर्ववच्चेदनन्वयः । विधायकाभावाच्च । अतो वीप्सा । पञ्चजनसंज्ञाविशिष्टानां वा पञ्चत्वमिति यथासंभवमर्थः । तथापि मूढग्राहेण संख्योपसंग्रहादपि लक्षणार्थं केनचिद्धर्मेण पञ्चसंग्राहकेण भाव्यम् । स च तेषां मते न संभवति तथा सति पञ्चैव तत्त्वानि स्यु: । अतस्ते नानाभावादेव स्वीकर्तव्याः । यद्यपि भूततन्मात्राकृतिचित्त्यन्तः स्थितत्वधर्मा वक्तुं शक्यन्ते । तथापि न ते तथोक्तवन्तः ।
१०
'३ न संख्योपसंग्रहाधिकरणम् । [ अ. १ पा. मू. १२
T
मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्व विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ (सां. कां. इत्यन्यथोपगमात् । पुरुष वैलक्षण्याभावप्रसंगश्च । किं च नायं श्रुत्यर्थ इति श्रुतादेव प्रतीयते । अतिरेकादाकाशश्वेति । चकारा१५ दात्मा यस्मिन्नित्यधिकरणत्वेनोक्तः । तस्मान्नानेनापि मन्त्रेण तन्मतसिद्धिः ॥ १|४|११ ॥
प्राणादयो वाक्यशेषात् ॥ १।४।१२ ।
नन्ववश्यं मन्त्रस्यार्थो वक्तव्यः । तदनुरोधेन लक्षणयापि ज्योति:शास्त्रवत्पञ्चपञ्चशब्दः पञ्चविंशतिवाचकतया परिकल्प्यः । स्पष्टमाहात्म्यार्थमात्माकाशयोराधाराधेयभावः प्रदर्शितस्तत्रत्ययोरेव । अतो मन्त्रे तन्मतसिद्धिरित्याशङ्कय परिहरति । प्राणादयः पञ्चजनाः । वाक्यशेषस्य मन्त्रार्थनियामकत्वात् । प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्नस्यान्नं मनसो मनः ( बृ. ४।४।१८ ) इति ।
२०
३)
and
ननु कथमस्य वाक्यशेषत्वम् । उच्यते । प्राणादयः संज्ञाशब्दाः २५ करणवाचकाः । ते ज्ञानरूपं वा क्रियारूपं वा कार्यं जनयन्ति स्वव्यापा