________________
भ. प. सू..]
अणुभाष्यम्।
१०६
६।३।३ ) इति श्रुतेश्च प्रथमात्पन्ना देवताजाशब्देनोच्यते । तत्र हेतुः । उपक्रमात् । अत्रैवोपक्रमे-तदेवाग्निस्तद्वायुस्तदादित्यस्तदु चन्द्रमाः ( श्वे. ४२) इति । द्वा सुपर्णा ( श्वे. ४।६) इति चाग्रे । मध्ये चायं मन्त्रः पूर्वोत्तरसंबद्धमेव वदति । सा मुख्या सृष्टिः । अजद्वयं जीवब्रह्मरूप५मिति । अत्र प्रकरणे न स्पष्ट इति निरूपयति । तथाहि श्रुत्यन्तरे स्पष्टमेवाधीयत एके । यदने रोहित५ रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदनस्य ( छां. ६।४।१ ) इति । एवमग्रेपि कलात्रये । अनेन जीवेनात्मना ( छां. ६।१२) इति जीवब्रह्मणोश्चानुप्रवेशः । बीजेपि त्रैविध्यमिति सरूपत्वम् । भगवतो भोगे हेतुः । जीवेन भुक्तभोगामिति । तस्मात्प्र" तेपि चमसच्वछ्तावेवार्थकथनान्न सांख्यमतप्रतिपादकत्वम् ॥ १।४।९ ॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः॥ १।४।१०॥
ननु द्विविधा शब्दप्रवृत्तिः। योगो रूढिर्वा । तत्राजाशब्दश्छागायां रूढः । न जायत इति योगः । अनुभयरूपत्वात्कथं सृष्टिवाचकत्वमित्याशङ्कय परिहरति । कल्पनोपदेशाच्च । कल्पनात्रोपदिश्यते । आद्या १५ सृष्टिः कल्पनयाजाशब्देनोच्यते । यथा ह्यजा बर्करसाहिता सवत्सा
स्वामिहिता तथेयमित्युपदेशपदात्तथोपासनमभिप्रेतम् । चकारात्परोक्षवादोपि देवस्य हिताय । यथा-आदित्यो वै देवमधु (छां. ३।१।१) वाचं धेनुमुपासीत (बृ. ५/८।१) धुलोकादीनां चामित्वं पञ्चाग्निविद्यायां
तथा प्रकृतेप्यविरोधः। योगरूढिव्यतिरेकेणाप्येषा वेदे शब्दप्रवृत्तिः । .. तस्मादजामन्त्रेण न सांख्यमतसिद्धिः ॥ १।४।१० ॥ २ ॥
३ न संख्योपसंग्रहाधिकरणम् । न संख्योपसंग्रहादपि नानाभावादतिरेकाञ्च ॥ १।४।११॥
___ मन्त्रान्तरेण पुनराशङ्कय परिहरति । बृहदारण्यकषष्ठे श्रूयते । यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेव मन्य आत्मानं विद्वान्
17-C reads बेदस्य for देवस्य ।