________________
१७
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः। समाधानायास्मिन् प्रकरणे ब्रह्मसंबन्ध एव भूयानुपलभ्यते
तस्मादत्र प्रतिपाद्यः प्राणः परमात्मा । २९ यदि ब्रह्मैवात्र प्रतिपाद्यं तदा मामेव विजानीहीति स्वात्मो. ४८
पदेशस्य का गतिरित्याशङ्कायामपदेशः शास्त्रदृष्ट्या न तु लोकदृष्ट्या । शास्त्रे च ब्रह्मज्ञाने सति ज्ञातुर्ब्रह्माभेदेन सर्वभाव उच्यते यथा श्रुत्यन्तरे वामदेवस्य सर्वात्मभाव उच्यते तद्वैतत्पश्यनृषिर्वामदेव इत्यादिना । तद्वदत्रापि
ज्ञानेन ब्रह्मभावात्स्वस्योपास्यत्वेनोपदेशः। ३० नन्वस्मिन्प्रकरणे जीवधर्मा मुख्यप्राणधर्माश्च भूयांस उप- ४९
दिश्यन्त इति नास्य ब्रह्मप्रकरणत्वमिति सूत्रांशेनाशङ्कयांशान्तरेण समाधानमाह । यदि जीवप्राणब्रह्मणां धर्मदर्शनात्रयाणां मुख्यत्वं स्वीक्रियेत तथा सत्युपासनात्रयप्रसंगाद्वाक्यभेद आपद्येत स तु दुष्ट इति न युक्तः । तथा सति योत्र जीवधर्माणां प्राणधर्माणां चोपदेशः सोत्र जीवस्य ब्रह्माश्रितत्वात्माणस्य तु तद्योगात् । तस्मात् ते सर्वे ब्रह्मधर्मा एवेति प्राणो ब्रह्मैवेति प्रतिपादितम् ॥
प्रथमाध्यायस्य द्वितीयः पादः १॥२॥
१ सर्वत्र प्रसिद्धोपदेशाधिकरणम् । १ छान्दोग्यस्थशाण्डिल्यविद्यायां मनोमयः प्राणशरीर इत्य- ५१
नेन विज्ञानमयस्य जीवस्य मनोमयत्वादिधर्मवैशिष्ट्यात्तैरेव च धर्मैः कर्तृत्वनिर्वाहाद्ब्रह्मणो जगत्कर्तृत्वमपि नोपपद्यत इत्याशङ्कायां जीवस्य ब्रह्मत्वेनोपासनं निवार्य सर्ववेदान्तप्रसिद्धब्रह्मण एवोपदेशाद्ब्रह्मैवात्रोच्यते । २ पूर्वोक्तविद्यायां मलत्वेन विवक्षिता ये गुणास्तेषां प्राप्तिर्भ- ५४
यवत्स्वरूपलाभात्तत्सारूप्यलाभारोपपद्येतातोपि तथा ।