________________
अणुभाष्यम्।
४३
सूत्राङ्काः
पृष्ठाङ्काः। ८ अतिदेशाधिकरणम् । २२ पूर्वोक्तहेतोः प्राणशब्देन ब्रह्मैवोच्यते ॥
___९ ज्योतिश्चरणाधिकरणम् । २३ एतावानस्य महिमेति मन्त्रे भूतात्मकानां चरणानां ब्रह्म- ४३
धर्मत्वाज्ज्योतिःशब्देन ब्रह्मैवोच्यत इति निर्णीतम् ।। २४ एतत्संदर्भाम्भे गायत्रीच्छन्द एवोच्यते इति न चरणानां ४४
ब्रह्मधर्मत्वमिति सूत्रांशेनाशङ्कयांशान्तरेण समाहितम् । भगवति चेतोर्पणार्थं संदर्भादौ गायत्री प्रस्तुता । तयोपासने
ब्रह्मदर्शनं भवतीति तस्माद्ब्रह्मण एव पादा न गायत्र्याः। २५ गायत्रीच्छन्दो हि शब्दरूपं भूतपृथिवीशीरहृदया- ४५
न्यर्थरूपाणि तेषां शब्दरूपच्छन्दःपादत्वं न संगच्छतेतो ब्रह्मण एव पादाः। यद्यप्येवं पादानां ब्रह्मधर्मत्वमायाति तथाप्येतावानिति मन्त्रे ४५ दिवीति सप्तम्या पादानां द्युलोकाधारत्वकथनेन विवाक्षितस्य ज्योतिषस्तदाधारत्वमुक्तम् । अथ यदतः परो दिव इति पञ्चम्यानाधारत्वमुच्यत इत्युपदेशभेदाज्ज्योतिर्न ब्रह्मेत्याशङ्कय वृक्षे श्येनो वृक्षाग्रात्परतः श्येन इति विभक्तिभेदेपि यथैकार्थप्रत्यभिज्ञा न विरुध्यते तथात्रापीति न दोष इति समाहितम् । तस्मादत्र ज्योतिःशब्दवाच्यं ब्रह्मैवेति निर्णीतम् ॥
१० अनुगमाधिकरणम् । २७ इन्द्रप्रतर्दनसंवादे प्राणोहमास्मि प्रज्ञात्मेत्यादिनोच्यमानः ४६
प्राणो ब्रह्मैव नासन्यो नापि जीवः । तस्य ब्रह्मत्वाङीकार
एव वाक्योक्तपदार्थसंगतेः। २८ ववेन्द्रेण प्रतर्दनं प्रति स्वात्मैव प्राणत्वेनोपदिश्यत इति. ४७
न तस्य ब्रह्मबोधकत्वमितिसूत्रांशेनाशङ्कय ततोशान्तरेण .
२६ यत्र