________________
प्रतिसूत्रं श्रीमदणुभाष्यतात्पर्यम् ।
सूत्राङ्काः
पृष्ठाङ्काः । तस्यैष एव शारीर आत्मा यः पूर्वस्येति वाक्याभ्यास उक्तः।
एवमभ्यासेन मयटमवाहा दे साधित आनन्दमयस्य ब्रह्मत्वम् । १२ मयटो विकारार्थत्वादानन्दमयस्य न ब्रह्मत्वमिति सूत्रांशे- ३४
नाशङ्कय मयटः प्राचुर्यार्थकत्वान्न मयट्प्रत्ययेनाब्रह्मत्वं वक्तुं
शक्यत इत्यंशान्तरेण समाहितम् । १३ आनन्दजनकत्वेन तत्कारणत्वान्मयटो विकारार्थत्वं निवा- ३५
रितम्। १४ सत्यं ज्ञानमिति मन्त्रे योर्थ उक्तः स एव संपूर्ण प्रपाठके ३५
प्रपञ्च्य गीयतेत आनन्दमयो ब्रह्मैवेति निर्णीतम् । १५ जीवस्यानन्दमयत्वं निराक्रियते । तत्र निरङ्कशजगत्कर्तृ- ३६ ___त्वादिरूपस्य माहात्म्यस्यानुपपद्यमानत्वात् । १६ आनन्दीभवतीत्यादिना जीवस्यानन्दनीयत्वमुच्यते नत्वान- ३७
न्दत्वमतो भेदव्यपदेशादपि जीवस्य नानन्दमयत्वम् । १७ सोकामयतेति चेतनधर्मस्य कामस्य जडायां प्रकृतावनुपपद्य- ३७
मानत्वात्सापि नानन्दमयीत्युच्यते । १८ श्रुतिरस्य जीवस्यानन्दमये ब्रह्मणि योगमुपसंक्रमरूपं फल- ३७
त्वेन कथयति तेन जीवापेक्षयोत्कृष्ट एवानन्दमयो नतु जीवादपकृष्टस्तस्मादानन्दमयो ब्रह्मैवेति निर्धारितम् ॥
६ अन्तस्तद्धर्माधिकरणम् । १९ आदित्यान्तरक्ष्यन्तश्च विद्यमानो हिरण्मयः पुरुष उदिता- ४०
दिब्रह्मधर्मोपदेशाद्ब्रह्मैवेत्युक्तम् । २० यमादित्यो न वेदेति श्रुत्यादित्याद्भेदनिर्देशेनापि तस्य ब्रह्मत्वं ४१ स्थापितम् ॥
७ तल्लिङ्गाधिकरणम् । २१ अत्र ब्रह्मप्रकरण आकाशशब्देन ब्रह्मैवोच्यते निरङ्कशजग- ४२
कारणत्वरूपब्रह्मलिङ्गात् ॥