________________
अणुभाग्यम् ।
१८
सूत्राङ्काः
पृष्ठाङ्काः। ३ तिरोहितानन्दत्वेन निराकारत्वादपि नात्र जीव उच्यते ५४
किंतु ब्रह्मैव । ४ ब्रह्मात्र ध्येयत्वेन प्राप्यत्वेन च व्यपदिश्यते जीवस्तु प्राप्तृ- ५४
त्वेन ध्यातृत्वेन च व्यपदिश्यत इत्युक्तं तेनात्रान्तर्यामिभूतं ब्रह्मैवोच्यते ॥
२ शब्दविशेषाधिकरणम् । ५ वाजसनेयिशाखास्थं यथा व्रीहिर्वा यवो वेत्यादिविषयवाक्य. ५५ मुपन्यस्य तत्रान्तरात्मन्युक्तो हिरण्मयः पुरुषो न जीवः किंतु
ब्रह्मैव शब्दोक्तहिरण्मयत्वरूपविशेषात् । ६ ईश्वरः सर्वभूतानामिति गीतास्मृतेरपि हृद्देशे वर्तमानस्य ५५
ब्रह्मत्वम् । ७ व्यापकस्येश्वरस्याल्पे हृदयस्थाने स्थितेरयुक्तत्वाच्छ्रतौ व्रीह्या- ५६ दितुल्यताश्रावणाञ्च तस्य ब्रह्मत्वं न युक्तमिति सूत्रांशेनाशङ्कयांशान्तरेण समाहितम् । हृदये निदिध्यासने कृते ब्रह्म ज्ञातुं शक्यते तत्रैव साक्षात्कारात् । तस्मात् हृदयस्य स्थानत्वमुच्यते । अन्ये त्वत्र दृष्टान्तमप्याहुर्यथा सर्वलोकपतिरप्ययोध्याधिपतिरिति तस्मान्न व्यापकत्वहानिः । यत्पुनर्बीह्यादितुल्यकथनं तत्तु चतुर्विधभूतान्तरवर्तित्व
ज्ञापनार्थमतो व्योमवत्सर्वत्र स्थितिर्बोध्यते तस्मान्न दोषः । ८ तस्य हृदये वर्तमानत्वे जीववत्सुखदुःखभोगोपि संभवती. त्याशङ्कय तस्य स भोगो न संभवति सर्वरूपत्वानन्दरूपत्वादिविशेषाणां विद्यमानत्वात् । तस्माद्ब्रह्मैवात्रोच्यते ।
३ अत्ता चराचराधिकरणम् । ९ यस्य ब्रह्म च क्षत्रं चेति कठवाक्ये ब्रह्मक्षत्रात्तृत्वं न जीवस्य ५७ किंतु ब्रह्मण एव । चराचरग्रहणात् । करो मृत्युरचरं ब्रह्मक्षत्ररूपं कस्याप्यचाल्यम् ।