________________
अ. . पा.
.
अणुभाष्यम् ।
प्रते ब्रवीमि तदु म निबोध स्वर्ग्यमग्निं नाचिकेत प्रजानन् (कठ. १।१।१४) इत्याद्युत्तरम् । येयं प्रेते विचिकित्सा मनुष्येस्तीत्येके नायमस्तीति चैके। ( कठ. १।१।२० ) इति द्वितीयः प्रश्नः । देवैरत्रापि ( कठ. १।१।२२ ) इत्यग्र उत्तरम् । अन्यत्र धर्मादन्यत्राधर्माद ( कठ. १।२।१४ ) इति ५ तृतीयः प्रश्नः । सर्वे वेदा यत्पदमामनन्ति ( कठ. १।२।१५) इत्यादि
नोत्तरम् । एवमग्निजीवब्रह्मणां प्रश्नोत्तराणि। तत्र यदि सांख्यमतनिरूपणीयम् इन्द्रियभ्यः ( कठ. १।३।१० ) इत्यादि स्यात् तदा चतुर्थस्याप्युपन्यासः स्यात् । उपन्यासे हेतुः प्रश्नः । अत एव पश्चाद्वचनम् ।
तस्य प्रकृतेभावादस्मदुक्तरीत्या त्रीण्येव प्रकरणानीति सिद्धम् । उत्तरप्रश्ना१० भावार्थं चकारः ॥ १।४।६।।
महद्वच्च ॥ १४॥७॥ ननु तथापि मतान्तरन्यत्र संकेतिताः कथं ब्रह्मवादे ब्रह्मपरतया योज्यन्त इत्याशङ्कय परिहरति । महद्त । यथा महच्छब्दः । महान्तं विभुमात्मानं (कठ. १।२।२२) वेदाहमेतं पुरुषं महान्तम् (श्वे. १५ ३१८) इत्यादौ महच्छन्दो ब्रह्मपरो योगेन । एवमव्यक्तशब्दोप्यक्षरवा
चक इति । न हि सांख्यमत इव वेदान्तेपि महच्छन्दः प्रथमकार्ये वक्तं शक्यते । तस्मादिन्द्रियादिवाक्ये सांख्यपरिकल्पितानां पदार्थानां नामाप नास्ताात सिद्धम्। चकारोधिकरणसंपूर्णत्वद्योतकः॥ १।४।७॥१॥
___२ चमसवदित्यधिकरणम् । २० पुनः श्रुत्यन्तरेण प्रत्यवस्थितं निराकर्तुमधिकरणान्तरमारभते।
चममवदविशेषात् ॥ १॥४८॥ ननु प्रकरणवशात्पूर्वमस्मदुक्तोन्यथा वर्णितः । यत्र प्रकरणापेक्षैव नास्ति मन्त्रे तदस्माकं मूलम् । अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमाना५ सरूपाः । अजो ह्येको जुषमाणोनुशेते जहात्येनां
- roads प्रकृतेर्भावात lor प्रकृतभानान् ।