________________
१ आनुमानिकाधिकरणम्
ज्ञेयत्वावचनाच्च ॥ १४४ ॥ पूर्वापरसंबन्धनार्थः प्रतिपादितः । केवलैतद्वाक्यविचारपि न तदभीष्टं प्रकृतिरूपमव्यक्तं सिध्यतीत्याह । अत्र हि वाक्येव्यक्तं ज्ञेयत्वेन नोक्तं तेषां तु प्रकृतिपुरुषान्तरं ज्ञातव्यम् । न हि सिद्धवन्मात्रनिर्देशे तेषां ५ मते पुरुषार्थः सिध्यति । अपुरुषार्थसाधनत्वे वासंबद्धार्थवाक्यत्वमेव स्यात् । परत्ववचनं चासंगतम् । श्लिष्टत्वादुभयारिति चकारार्थः । अयं हेतु: पूर्वमुक्ताप्यवसरे स्मारितः । तस्मादव्यक्तं न प्रकृतिः || ४|४|१४|| वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ १|४|५ ॥ ननु ज्ञेयत्ववचनमसिद्धम् । पूर्वं निर्देशमात्रमुक्त्वाग्रे ज्ञेयत्ववचनात् अशब्दमस्पर्शमरूपमव्ययं तथारसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं धुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते ॥ ( कठ. २२३ १५ ) इत्युत्तरवाक्ये वदतीति चेन्न । प्रकरणस्य नियामकत्वेनैकवाक्यत्वे द्वयोः सर्वैकवाक्यत्वेन प्राज्ञः परमात्मैव निचाय्यः । न तु द्वयोरेक १५ वाक्यत्वं वक्तुं शक्यम् । तस्मात्प्रकरणस्य नियामकत्वं शब्दवाक्यमपि भगवत्परमेव ॥ १।४।५॥
१०
२०
१०३
·
त्रयाणामेवमुपन्यासः प्रश्नश्च ॥ १४६ ॥
ननु न वयं सर्वमेकं प्रकरणमिति वदामः । किंतु-इन्द्रियेभ्यः परा: (कठ. १।३।१ ० ) इत्यारभ्य - नाचिकेतमुपाख्यानम् (कट. १।३।१६) इत्यन्तं भिन्नं प्रकरणम् । तत्र प्रथमं पदार्थनिर्देशः । तदनु-- एष सर्वेषु भूतेषु ( कठ. १।३।१२ ) इति पुरुषज्ञानम् । अशब्दामिति तु प्रकृतिज्ञानम् । तस्मादेतत्प्रकरणे सांख्यमतनिरूपणादशब्दत्वमसिद्धमित्याशङ्कय परिहरति ।
त्रयाणामेवमुपन्यासः प्रश्नश्च । अस्मदुक्तव्याख्याने त्रिप्रकरणत्व
२५ मन्यथा चतुष्प्रकरणवं स्यात् । तृतीया चैषा वल्ली । स त्वमग्निं स्वर्गमध्येषि
मृत्यो प्रब्रूहि तं श्रानाय महद्यम् (कट. ?|१|१३ ) इति प्रथमः पक्षः।