________________
अ. १ पा. ३ म. २] अणुभाष्यम् । प्रकरणार्थः । सुषुप्तावुत्क्रमणे च जीवब्रह्मणा देन व्यपदेशात् । आकाशवद् ब्रह्मनिर्धार एव युक्तः ॥ १।३।४२ ॥
पत्यादिशब्देभ्यः ॥ १॥३॥४३॥ किं च । सर्वस्य वशी (बृ. ४।४।२२ ) इत्यादिशब्देभ्यः स्पष्ट५ मेव ब्रह्मप्रकरणमिति ॥ १।२४३॥१३॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिंत ब्रह्मसूत्राणुभाष्य
प्रथमाध्यायस्य तृतीयः पादः ॥ १।३ ॥
增
长长长6
प्रथमाध्याये चतुर्थः पादः।
१ आनुमानिकाधिकरणम् ५० आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृही
तेर्दर्शयति च ॥ १॥४॥१॥ एवं सर्वेषां वेदान्तानां ब्रह्मपरत्वे निर्णीते केचिंद्वेदार्थाज्ञानात् क्वचिद्वेदभागे कापिलमतानुसारिपदार्थदर्शनन तस्यापि वेदमूलकत्वं वदन्ति ।
तन्निराकरणाय चतुर्थः पाद आरभ्यते । तत्र-ईशंतनाशब्दम् (ब्र. सू. १५ १।१४) इति सांख्यमतमशब्दत्वादिति निवारितम्। वेदेन प्रतिपादितमिति तत्राशङ्कते।
आनुमानिकमप्येकेषाम् । एकेषां शाखिनां शाखास सांख्यपरिकल्पितप्रकृत्यादि श्रूयते ।
इन्द्रियेभ्यः परा ह्या अर्थभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धरात्मा महान् परः ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः।
पुरुषान्न परं किंचित्सा काष्टा सा परा गतिः ( कठ. १।३।१०।११) इति काठके श्रूयते । तत्र बुद्धरात्माहंकारः । ततो महान्महत्तत्वम् । ततोव्यक्तं प्रकृतिः ततः पुरुष इति । न ह्यहंकारादयः पदार्था ब्रह्मवादे संभ
२०