________________
१०१ १ आनुमानिकाधिकरणम्। (. पा. १५. १ वन्ति । तस्मादेवंजातीयकेषु तन्मतपदार्थानां श्रवणान्मायाप्रकृत्यविद्यावादा अपि श्रौता इति चेन्न शब्दसाम्यमात्रेण तन्मतं न सिध्यति ।
संदिग्धानां पदार्थानां पौर्वापर्येण निर्णयः। न तु संदिग्धवाक्येन सर्वव्याकुलतोचिता ॥२३॥ अत्र हि पूर्वम् । आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुविषयांस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भाक्तत्याहुर्मनीषिणः ॥ ( कट. १।३।३-४ )
तदनु चत्वारि वाक्यानि । यस्त्वविज्ञानवानित्यादि । तदन्विन्द्रियेभ्यः परा इति । तत्र पूर्वसंबन्ध एवार्थ उचितः । तमाह।
शरीररूपकविन्यस्तगृहीतेः । शरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रूपकभावेन रथादिषु तेषामेवात्र गृहीतिर्ग्रहणम् । अन्यथा प्रकृतहानाप्रकृतपरिग्रहापत्तिः ।
जीवप्रकरणं ह्येतन्मुक्त्युपायोस्य रूप्यते। योग्यं शरीरमारुह्य गच्छेदिति हरेः पदम् ।। २४ ॥
तत्र जीवस्य ब्रह्मप्राप्नौ मुख्यं साधनं शरीरम् । स रथः । सर्वसामग्रीसहितापराधीनयानत्वात् । रथस्तु हयाधीनः। हयाश्च स्वबुद्ध्यधीनाः ।
सा च प्रग्रहाधीना। स च सारथ्यधीनः । स च स्वबुद्ध्यधीनः। साच मार्गा२० धीना । स च प्राप्याधीन इति । एवं ज्ञात्वा युक्तसामग्रीकस्तद्देशं प्राप्नोति ।
तत्रेन्द्रियाणामात्मा विषयाः । ते च मनसा सम्यक्त्वेन भावितास्तथा भवन्ति । विरक्तेन्द्रियाणामतथात्वात् । जुद्धेरात्मा विज्ञानम् । तद्ब्रह्मविषयक महद भवति । ततः परमव्यक्तं न प्रकटं भगवत्कृपैव । सा तु भगवदधीना
न साधनान्तराधीना । स च भगवान्स्वाधीन इति । एवमेवार्थस्तस्योचितः । २५ किंच । दर्शयति स्वयमममथम् ।
प्रष सर्वेष भतष गढोत्मा न प्रकाशन ।