________________
૮
अ. १ पा. सू. ४२ ]
अणुभाष्यम् ।
५
1
इति तन्निराकरणार्थं स समानः सञ् जीवतुल्यः सन् क्रीडतीत्याह । तस्योभयधर्मा अप्युच्यन्ते क्रियामात्रस्य तन्मूलत्वाय । तत्र हि चत्वारि स्थानानि । अयं लोकः परलोकः स्वप्न इति त्रयं जीवसमानतयानुभवति तत्र स्वप्नस्य मिथ्यात्वाद् द्वयमेव । सुष्मं च चतुर्थम् । जीवस्य तु मोक्षोपि । तत्रास्मिंल्लोके जीवस्यानीशित्वं प्रत्यक्षसिद्धम् । मोक्षे त्वैक्यम् । स्वमस्तु माया । अतः परं द्वयमवशिष्यते । तत्र श्रुत्यैव भेदः प्रतिपादितः । तत्र भगवतो जीवसाम्येन्तः करणेन्द्रियधर्माः प्राप्नुवन्तीति तत्रानुकरणमाह । ध्यायतीव लेलायतीव (बृ. ४ | ३ |७ ) इति बुद्धिसहितः स्वयमेव स्वप्नां भूत्वा जागरणानुसंधानं न करोति । एवं जाग्रत्स्वापों ब्रह्मणो लोकद्वयं १० जीवस्य स्थानत्रयमाह स वा अयमिति काण्डकाद्वयेन । स इति पूर्वप्रक्रान्तो जीवः । जीवस्य शरीरेन्द्रियाणां दुःखदातृत्वमेव । अथेति भगवञ्चरित्रम् । स तु स्वस्यानन्दं जीवस्य दुःखं च पश्यति । भेदोथशब्दात् । जीवस्यानीशित्वाद्येन प्रकारेणायं जीवः परलोके गच्छति तमुपायं भगara करोति । अथो खल्विति भगवतो न जागरितस्वप्नभेदोस्तीति पक्षः । १५ परं स्वयंज्योतिब्वं तत्र स्पष्टम् । एतावदुरे भगवच्चरित्रमङ्गीकृत्य जीवविमोक्षार्थ प्रश्नः । स वा एष इति जीववाक्यम् । तस्य सहजः संगो नास्तीति स्वप्नसंगभावं प्रत्यक्षतः प्रदर्शयन्न संगत्वमाह । तावतापि जागरणावस्थायामसंगत्वज्ञानाय पुनः प्रश्नः । तत्र मत्स्यदृष्टान्तोवस्थाभेदज्ञानाय क्रियाज्ञानप्रधानः । श्येनसुपर्णदृष्टान्तस्तु सुषुप्तौ भगवत्स्वरूपप्राप्तयेवस्थान्तः । यत्रेति च भगवान् । पञ्चवर्णनाडीकृत एवास्य क्लेशो भगवत्कृत एवानन्द इति स्वप्नानन्दो भगवद्रूपः परमो लोकः । सुषुप्तिस्त्वकामरूपो भगवान् । अत्र ज्ञानाभावादुभयोः स्पष्टतया भेदनिर्देशः शारीरः प्राज्ञ इति । नाड्याच्छादनाभावोतिच्छन्दः । तत्र भगवत्स्वरूपं गतस्य बाह्येन्द्रियधर्माभावमाह विजानीयादित्यन्तेन । बाह्येन्द्रियाणां सलिलत्वमिति २५ पूर्वोपपत्तिः । एष ब्रह्मलोक इत्यारभ्य अनुशशासैतदमृतमित्यन्तेनानन्दरूपो भगवान् प्रतिपादितः फलत्वाय । एतावतोभयासंग : प्रतिपादितः ।
२०
तस्यानुभवारूढत्वाय पुनः प्रश्नः । दर्शनादर्शनावापोद्वापाभ्यां सिद्धम् - असंगो ह्ययं पुरुष: ( . ४३१५ ) इति । एवं जीनं सुमौ