________________
अ. . पा. 3 सू. १९] अणुभाग्यम् । (ते. सं. २०६८) इति श्रुतेः । प्राणोपासकस्याप्यमृतत्वप्राप्तियुज्यते । इन्द्रस्याप्यमरत्वात् । वज्रमुद्यतमिति प्राणपक्षे वियोजने मरणजनकत्वाद्भयरूपत्वम् । इन्द्रपक्षे बलाधिष्ठातृत्वात्प्राणत्वम् । तस्मात्प्राण इन्द्रो वा वाक्यार्थ इत्येवं प्राप्ते। उच्यते।
कम्पनात् । कम्पनमंत्र प्रथमवाक्यार्थः। स च भयहेतुकः । अविशेषेण सर्वजगत्कम्पनं भगवद्धेतुकमेव भवति । नचैकान्ततो वज्रं इन्द्रस्यैवायुधं भवति । आमिहृदयत्वात् । तस्य तान्तस्य हृदयमाच्छिदत् साशनिरभवत् ( तै. बा. १।१।३) इति श्रुतेः । तस्मान्मारकरूपमेवेदं
भगवतः । प्राणशब्दवाच्यत्वं तु पूर्वमेव सिद्धम् । तस्मात्सर्वजगत्कम्पनं १० भगवत्कृतमिति भगवानेव वाक्यार्थः ॥ १।३॥३९॥१० ॥
११ ज्योतिर्दर्शनाधिकरणम् ।
ज्योतिर्दर्शनात् ॥ १॥३॥४०॥ स एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरभिसंपद्य स्वेन रूपेणाभिनिष्पद्यते ( छां. ८।१२।३ ) इति । तत्र संशयः । परंज्योतिर्म१५ हाभूतरूपं ब्रह्म वेति ।
ब्रह्मधर्माश्च ये केचित् सिद्धा युक्तथापि साधिताः । निर्णायकास्ततोप्यन्ये चत्वारोत्र निरूपिताः ॥ २२ ॥ तत्र रूढयोपपत्त्या च महाभूतमेव ज्योतिरित्येवं प्राप्ने । उच्यते ।
ज्योतिर्ब्रह्मैव । कुतः । दर्शनात् । दर्शनं सर्वत्र दर्शनं न्याय इति २. यावत् । सुषुप्तौ सर्वत्र-सता सोम्य तदा संपन्नो भवति । सति संपद्य
न विदुः । सति संपद्यामहै ( छां. ६।९।२ ) इति । अहरहर्ब्रह्मलोकं गच्छन्तीत्यादिप्रदेशेषु ब्रह्मसंपत्तिरेवोक्ता । अत्रापि संप्रसादवचनात्परं ज्योतिब्रह्मैव । तस्माद्यः कश्चन शब्दो ब्रह्मस्थाने पठितस्तद्वाचक एवेति ॥ १३॥४०॥११॥
M
1-A,C and S read असतप्राप्तिः for अमृतत्वप्राप्तिः। 19-B and Som. gefa before profil