________________
९५
कम्पनाधिकरणम् । [अ. १ पा. 3 मू. ३९ इत्यत्र गौतमः सत्यकाममुपनिन्ये । नैतदब्राह्मणो विवेक्तुमर्हति (छां. ४।४।५) इति सत्यवचनेन शूद्राभावं ज्ञात्वैव । चकार एवार्थे । चकारेण निर्धारणमुभयज्ञानार्थम् । वर्णित्वं शुद्राभावं च । तस्मान शूद्रस्याधिकारः ॥ १।३।३७॥ ५ श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ १॥३॥३८॥
दूरे ह्यधिकारंचिन्ता । वेदस्य श्रवणमध्ययनमर्थज्ञानं त्रयमपि तस्य प्रतिषिद्धम्। तत्संनिधावन्यस्य च । अथास्य वेदमुपशण्वतस्त्रपुजतुभ्यां श्रोत्रपूरणम् इति । पद्यु ह वा एतच्छशानं यच्छूद्रः। तस्माच्छूद्र
सामीप्ये नाध्येतव्यम् इति । उदाहरणे जिव्हाच्छेदो धारणे शरीरभेदः १. (गौ. सू १२।४ ) इति । दोहादौ शूद्रसंबन्धे मन्त्राणामभाव एव ।
स्मृतियुक्त्यापि वेदार्थे न शूद्राधिकार इत्याह । स्मृतेश्च । वेदाक्षरविचारेण शूद्रः पतति तत्क्षणात् । पा. स्मृ. ११७३ इति । चकारस्त्वधिकरणसंपूर्णत्वद्योतकः । स्मार्तपौराणिकज्ञानादौ तु कारणविशेषेण शूद्रयोनि
गतानां महतामधिकारः । तत्रापि न कर्मजातिशूद्राणाम् । तस्मानास्ति १५ वैदिके वचिदपि शूद्राधिकार इति स्थितम् ॥ १।३।३८ ॥ ९ ॥
-
१० कम्पनाधिकरणम् ।
कम्पनात् ॥ १॥३॥३९॥ कठवल्लीविचारेण निश्चिता ाधिकारिणः । वाक्यान्तरं च तत्रत्यं चिन्त्यतेः प्रलयावधि ॥२१॥
यदिदं किंच जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ( कठ. २।६।२) इति । अत्र प्राणवज्रोयमनशब्दाभ्यां संदेहः । किं प्राणोपासना इन्द्रोपासना वा ब्रह्मवाक्यं वेति। बाधकशब्दस्य श्रुलित्वान्न प्रकरणेन निर्णयः । अमृतं वै प्राणाः
13-A reads कारणवशेन for कारणविशेषेण ।