________________
५
उत्तरत्र चैत्ररथेन लिङ्गात् । अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिम् (छां. ४ | ३ |५ ) इत्युत्तरत्र ब्राह्मणक्षत्रियौ तौ निर्दिष्टौ । कक्षा सेना यस्येति । कक्षसेनस्यापत्यं काक्षसेनिरिति । अस्य व्याख्यानं चैत्ररथ इति । चित्रा रथा यस्य तस्यापत्यं तेन चैत्ररथेन । कक्षारूपा रथा इति व्याख्यानम् । एतेन वै चित्ररथं कापेया अयाजयन् ( तां. बा. २०।१२।५) १० इति । शौनकश्च कापेयो याजकश्च । याज्यश्च चित्ररथस्य पुत्रः काक्षसेनिरिति । ब्रह्मचारी ब्रह्मवित् । इमौ तु संवर्गविद्योपासकौ । प्राणाय भिक्षा । तस्मान्न ददतुः । उभावपि श्लोकौ भगवतः । तेन प्रकृतेप्येतौ गुरुशिष्यौ ब्राह्मणक्षत्रियावेवेति गम्यते । तस्मान्न जातिशूद्रः संवर्गविद्यायामधिकारी || १३ | ३५ ॥
अ. १ पा. सू. ३५ ]
अणुभाष्यम् ।
दानात् । न हि क्षत्तप्रभृतयो ह्येते क्षत्रियावन्यस्य संभवन्ति । राजधर्मत्वात् । न ह्यन्यो ब्राह्मणाय भार्यात्वेन कन्यां दातुं शक्नोति । न च प्रथमहं सवाक्यं शूद्रे संगच्छते । उपदेशाच्चेति चकारार्थः । तथापि संवर्गविद्यायां शूद्रस्यैवाधिकारं मन्वानस्य निराकरणार्थं हेतुमाह ।
१५
९४
संस्कार परामर्शात्तदभाव | भिलापाच्च ॥ १।३।३६ ॥
इदानीं शूद्रस्य क्वचिदपि ब्रह्मविद्यायामधिकारश्चेदत्रापि कल्पेत । तत्तु नास्ति । सर्वत्र संस्कारपरामर्शात् । उपनयन संस्कारः सर्वत्र परामृश्यते । तं होपनिन्ये । (श. बा. ११/५/३/१३ ) अधीहि भगव इति होपससाद | ( छां. ७।१।१ ) तान्हानुपनीय ( छां. ५/११/७ ) इत्यादि२. प्रदेशेषूपनयनपूर्वकमेव विद्यादानं प्रतीयते । शूद्रस्य तु तदभावाभिलापात् । चतुर्थ एकजातिस्तु शूद्र इति न शूद्रे पातकं किंचिन्न च संस्कारमर्हति ( म. स्मृ. १०/१२ ) इति शूद्रस्य संस्कारनिषेधात् । चकारात् न शूद्राय मतिं दद्यात् (म. स्मृ. ४।८० ) इति निषेधात् ॥ १।३।३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ १।३।३७ ॥
१५
इतश्व न शूद्रस्य सर्वथाधिकारः । तदभावनिर्धारणे शूद्रत्वाभावनिर्धारण एवं गुरुशिष्यभावप्रवृत्तेः । सत्यकामो ह जाबाल : (छां. ४|४|१)