________________
९शुगस्येत्यधिकरणम्। [अ. १ पा. 3 सू. ५
९ शुगस्येत्याधिकरणम् । शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥॥३॥३४॥
इदानीं शूद्रस्याधिकारो निराक्रियते । यथा कर्मणि-एतया निषादस्थपति याजयेत् । सा हि तस्येष्टिः ( आ. श्री. सू. ९।१४।१२) ५ इति श्रुतेर्हविष्कृदाधावेति शूद्रस्येति लिङ्गाद् दोहादौ च शूद्रस्याधिकारः। एवमिहापि संवर्गविद्यायां शूद्रस्याधिकार इति तन्निराकरणार्थमिदमधिकरणमारभ्यते । एवं श्रूयते । जानश्रुतिर्ह पौत्रायणः ( छां. ४।२।३) इत्यत्र हंसवाक्यश्रवणानन्तरं सयुग्वनो रैकस्य समीपं गतो जानश्रुतिः
पौत्रायण रैक्केमानि षट्शतानि गवामित्यादिना देवतां पृष्टः प्रत्युवाच । १० अह हारेत्वा शूद्र तवैव सह गोभिरस्तु (छां ४।२।३) इत्यादिना
जानश्रुतिं शूद्रशब्देन संबोध्य पुनश्च शूद्रानेन मुखेनेत्युक्त्वा संवर्गविद्या. मुपदिष्टवान् । अतोत्र विद्यायां जातिशूद्रस्याप्यधिकार इत्याशङ्कय परिहरति । नात्र शूद्रशब्दो जातिशूद्रवाची । किंतु मत्सरयुक्तस्त्वमत्र नाधि
कारीति तथा संबोधनम् । तदाह । शुक् शोकः अस्य जानश्रुतेः सम१५ जनि । तत्र हेतुः । तदनादरश्रवणात् । तस्माद्धसादनादरस्य श्रवणात् ।
कं वर एनमेतत् सन्तं सयुग्वानमिव रैकमात्थेति स्वापकर्षश्रवणात् । किमतो यद्येवमत आह।
तदाद्रवणात् । तत्तदनन्तरमाद्रवणात् । शुचमन्वाद्रवतीति शद्रः। परोक्षवादा) दीर्घः सर्वज्ञत्वख्यापनाय । रूढिर्योगमपहरतीति न्यायात्क२. थमेवमत आह । सूच्यते हि। स्वस्य सर्वज्ञत्वं सूच्यते। हंसवाक्याच्छोके
जाते त्वमागत इति । अन्यथा प्रपन्नस्य धिक्कारवचनमनर्थकं स्यात् । युक्तश्चायमर्थो ब्रह्मविदः सर्वज्ञतेति । तस्य मात्सर्यनिराकरणं वा संबोधनफलम् । तस्माच्छुचं प्रत्याद्रवणादेव शूद्रपदप्रयोगो न जाति
शूद्रवाची ॥ १।३।३४ ॥ २५ कुत एवमत आह । क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ १॥३५॥
जानश्रुतेः पौत्रायणस्य क्षत्रियत्वमवगम्यते । गोनिष्करथकन्या