________________
अ. पा. . सू..] अणुभाष्यम् । इति जैमिनिराचार्यो मन्यते । मनुष्याणामेव ज्ञानकर्मणोस्तरतमभाववतां तत्तद्रूपभोगानन्तरं मोक्षप्राप्तेरिति ॥ १३॥३१॥
___ ज्योतिषि भावाच्च ॥ १।३।३२ ॥
किं च । तेषां सर्वेषामनधिकारः प्रत्यक्षत एव दृश्यते । सर्वे हि ५ नक्षत्रादिरूपेण महाभोगवन्तो जगदवभासकत्वेन ज्योतिश्चक्रे दृश्यन्ते ।
अमिः पुच्छस्य प्रथमं काण्डम् ( तै. आ. २।१९) इत्यादिश्रुतेश्च । न हि तादृशां प्राप्नैश्वर्यवतां सर्वोपास्यानां मोक्षदातृणां ज्ञानकर्मणोः कश्चनोपयोगोस्ति । तस्मादनधिकार एव देवानामित्येवं प्राप्ते ॥ १।३।३२ ॥
उच्यते।
भावं तु बादरायणोस्ति हि ॥ १।३।३३॥
तुशब्दः पक्षं व्यावर्तयति । भावं देवानामधिकारस्य सद्भावम् । बादरायण आचार्यः । गौणसिद्धान्ताभावाय स्वनामग्रहणम् । किमार्षण ज्ञानेन । तथा सति तुल्यत्वमत आह । अस्ति हि । अस्ति वेदे प्रजा
पतिरकामयत प्रजायेयेति । स एतदनिहोत्रं मिथुनमपश्यत् । तदुदिते १५ सूर्येजुहोत् ( तै. बा. २।१।२) इति । देवा वै सत्रमासत (तै. सं.२।३।३)
इत्यादिभिः कर्माधिकारो निश्चितः । तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् (बृ. १।४।१० ) इत्यादि । तथेन्द्रप्रजापतिसंवादे ब्रह्मा देवानाम् ( तै. सं. ३।४।११ ) इति च । एवमेवंविधैर्वात्यैर्देवानामप्यधि
कारोस्ति । यत्र च पुनर्देवानां फलभोग पत पनीयते न करणं तत्रापि २० तेषामधिकारोङ्गीकर्तव्यः । हि युक्तोयमर्थः । एते हि वसव आधिदैविक
भगवदवयवभूताः । अनशनात् । अन्यथा वसुत्वादिविरोधः । यद्वसूनां प्रातः सवनम् ( तै. ब्रा. १।५।११ ) इत्यादिवत् । न हि जीवविशेषा दृष्ट्वा तृप्यन्ति । तस्मादिदं ब्रह्मप्रकरणमेव । योपि देवोपासकवत्पतीयते
स भगवदंश एवाधिदैविकः । न वा पूर्वकल्पेन निर्णयः । तथा सति १५ तेषामभावादनुपास्यत्वम् । अनित्यता च वेदस्य स्यात् । तस्माद् देवा
नामप्यधिकार इति शब्दबलविचार एव युक्त इति सिद्धम् ॥१॥३॥३॥८॥