________________
८ तदुपर्यपीत्यधिकरणम् ।
[अ. १ पा. भू. २८
( तै. सं. २।३।३ ) इत्यादौ । दर्शनवचनात्स्वस्यापि ऋत्विक्त्वं कर्मकरणं च द्योतयति।
___ अथवा सर्वपदार्थानामनेका प्रतिपत्तिर्बहुधोपयोगो वेदे दृश्यते । यथा चतुर्धाकरणादि परिधिपहरणादि तुषोपवापादि तद्विद्यमाने क्रियते ५ नाविद्यमाने । तथा यत्र ये पदार्था न सन्ति तत्र कर्म तदभावेपि भवति । तथाहि दृश्यते । पर्वते सोमवाहकानोभाववत् । यज्ञेन यज्ञमयजन्त देवाः। ( क्र. सं. १०१९१।१६ ) इति संभृतसंभारः पुरुषावयवैरहम् । तमव पुरुषं यज्ञं तनवायजमीश्वरम् । ( भा. २।६।२७ ) इत्यादिवाक्यः
सर्वसंभृत्युपपत्तिश्च । आधुनिकान्प्रति वेदविभागाज्जैमिनस्तथा निर्णयः । १० तस्मात्कर्माधिकारः कर्मकरण चोपर्यपि सिद्धम् ॥ १।३।२७ ॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानमानाभ्याम् ॥१॥२८॥
__ननु मास्तु कर्मकरण विरोधः । शब्दे तु भविष्यति । अर्थज्ञानानन्तरं हि कर्मकरणम् । वेदाचार्थज्ञानम् । तत्र साध्यादीनां वेद एव
कर्मकरणं श्रूयते । तत्र ज्ञान कर्मकर्तृविरोधः । अन्यकल्पनायां १५ त्वनवस्था । व्यवस्थापकाभावात् । तस्माद् वेदो वसूनां वृत्तान्तं वदन् वसूनामधिकारं वदेत् । वदन्वा कथमनित्यो न भवेदिति चेन ।
अतः प्रभवात् । अतः शब्दात्प्रभवः शब्दोक्तपदार्थानाम् । वेदोक्ताः सर्व एव पदार्था आधिदैविका एव पुरुषावयवभूताः । सर्वा
नुकारित्वाद् भगवतः । अतो नामप्रपञ्चो वेदात्मको भिन्न एवाङ्गीकर्तव्यः। २० स केवलं शब्दैकसमधिगम्यः । वेदैश्च सर्वैरहमेव वेद्यः (भ. गी. १५।१५)
इति । अतस्तस्य प्रपञ्चस्य भिन्नत्वान्न विरोधः शन्दे । कथमेवमत आह । प्रत्यक्षानुमानाभ्याम् । प्रत्यक्षं तावदिदानीमपि यजमानो यजमानकृत्यमृत्विजश्च स्वकृत्यं वेदादेवावगच्छन्ति । न चाकृतिमात्रवाचकत्वेनाविरोधः ।
सर्वत्र लक्षणाप्रसंगात् । यः सिक्तरेताः स्यात् ( तै. सं. ५।५।४ ) २५ इत्यादिषु विरोधश्च । न च प्रवृत्तिनिमित्तस्यैव वाच्यत्वम् । प्रवृत्तिवैय