________________
सू. १ पा. ३ सू. २६ ]
अणुभाष्यम् ।
भवेत्सर्वत्र ब्रह्मविद्यायां मनुष्याणामेवाधिकार इति । तन्निराकरणार्थं देवादीनामधिकारमाह ।
१०
तदुर्यपि । मनुष्यापेक्षयार्वाक्तनानामधिकारो नास्ति । तत्रापि वैदिकधर्महेतोस्त्रैवर्णिकानां धर्मयुक्तानामागतम् । ततोपि ये साध्वादयो धर्मयुक्तास्तेषामप्यधिकारः । तत्र जैमिनिप्रभृतीनां न संमतिरिति स्वनाम - ग्रहणम् । विशिष्टत्रैवर्णिकानारभ्य प्रजापतिपर्यन्तं शतानन्दिनामधिकारं मन्यते वादरायणः । कुतः । संभवात् । संभवति तेषां ज्ञानाधिकारः । धर्मज्ञानाभ्यां सातिशयाभ्यां हि तादृशजन्मसंभवात् । न हि तेषां पूर्वसंस्कारो लुप्यते । अक्षरपर्यन्तं शतोत्कर्षश्रवणादुपर्यंपेक्षा । अतोक्षरप्राप्तेः शुद्ध ब्रह्मविद्याहेतुकत्वादुत्तरोत्तरमुपदेष्टृणां विद्यमानत्वात्प्रजापतिपर्यन्तं सर्वेषामधिकारः संभवति । संभवतिवचनाद् दुर्लभाधिकारस्तत्रेति सूचितम् । यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम् ( बृ. १।४।१० ) इति । तदुपर्यप्यधिकारः सिद्धः ॥ १।३।२६ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ १।३।२७ ॥ नन्वेवमुपरितनानां ज्ञानाधिकारे स्वीक्रियमाणे तत्पूर्वभाविष्वप्यधिकारो वक्तव्यः कर्मणि वेदाध्ययन उपनयनादिषु च । ततश्च तेषां ब्राह्मण्याद्यभावाद् देशद्रव्याद्यभावाच्च पौराणिकेन मतेन देवान्तराभावाच्च तदभावेपि क्रियमाणे कर्मणि श्रुतिविरोध इति चेन्न ।
५
۱۶
२०
૮૮
1
अनेकप्रतिपतेर्दर्शनात् । बहूनां प्रतिपत्तिर्दृश्यते । बहवांत्र कर्मणि प्रवर्तमाना दृश्यन्ते । साध्या वै देवाः सुवर्गकामा एतत्षड्रात्रमपश्यत् तमाहरत् तेनायजन्त । सोग्निष्टोमेन वसूनयाजयत् । स उक्थेन रुद्रानयाजयत् । सोतिरात्रेणादित्यानयाजयत् ( तै. सं. ७।२।१ ) इत्यादि । यथैकशतं वर्षाणि प्रजापताविन्द्रो ब्रह्मचर्यमुवास ( छां. ८।११।३ ) इति । भूमावागत्य ऋषीन् वृत्वा यज्ञकरणं च श्रूयते - देवा वै सत्रमासत
8- वि. om. हि after सातिशयाभ्याम् ।
11-M, D and E read संभववचनात् for संभवतिवचनात् । 20- C reads रात्रमपश्यन् for रात्रमपश्यत् ।