________________
८७
८ तदुपर्यपीत्यधिकरणम् । [ अ. १ पा. सू. २६
I
( का. २|४|१३ ) इति तत्रैव श्रूयते । यावान्वा अयमाकाश: इति व्यापकत्वमन्तः स्थितस्य प्रतीतम् । अङ्गुष्ठमात्रता चात्र प्रतीयते । अतो विरोधाज्जीवस्यैव लोकान्तरगन्तृदेहवत उपासनार्थमीशानत्वादिधर्माः । अङ्गुष्ठमात्रं पुरुषं निश्वकर्ष यमो बलात् ॥ ( म. भा. ३।२९७/१७ ) ५ इति तन्निवृत्त्यर्थम् । तस्मादङ्गुष्ठमात्रो न भगवानेवं प्राप्तम् । अत उत्तरमाह ।
शब्दादेव प्रमित: । अत्र संदेह एव न कर्तव्यः । शब्दादेव प्रकर्षेण विमानात् । यथा दहरवाक्ये सूक्ष्मस्यैव व्यापकत्वं तथाङ्गुष्ठमात्रस्यैवेशानत्वम् । यदि भगवांस्तादृशो न स्यादन्यस्य तादृशत्वं नोप१० पद्येत । तस्माद् भगवतः सर्वतः पाणिपादान्तत्वाद यत्र यावानपेक्ष्यते तत्र तावन्तं श्रुतिर्निरूपयतीति अङ्गुष्ठमात्रः परमात्मेति सिद्धम् ॥ १।३।२४ ॥ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ।। १।३।२५ ॥
नन्वनेकरूपत्वं विरुद्धधर्मवत्त्वं माहात्म्यार्थं स्वरूपे निरूपयति । प्रादेशमात्रत्वं च ध्यानार्थम् । अङ्गुष्ठमात्रत्वस्य क्वोपयोग इति चेत्तत्राह । १५ तुशब्देन निष्प्रयोजनत्वं निराक्रियते । अस्ति प्रयोजनम् । तदाह । गुष्ठमात्रं निरूप्यते । केन हेतुना । अपेक्षया । ईश्वरकार्यापेक्षया । ईश्वरः सर्वभूतानां हृद्देशेर्जुन तिष्ठति ( भ. मी. १८/६९ ) इति स्मृते: । रक्षार्थमङ्गुष्ठमात्र इत्यर्थः । ननु प्रमाणान्तरत्वे किमेतन्न संभवति तत्राह । मनुष्याधिकारत्वात् । मनुष्यानधिकृत्येदं मृत्युपाख्यानं प्रवृत्तम् । अतो मनुष्याणां हृदयस्याङ्गुष्ठत्वात् । यद्यपि हृदयं स्थलं तथापि धर्मरूपं तावदेव । तावन्मात्रस्यैवावदानश्रवणात् । तस्मादङ्गुष्ठमात्रस्यैव सर्वधर्मरक्षकत्वादङ्गुष्ठमात्रो भगवानेवेति सिद्धम् || १|३|२५ ॥ ७ ॥
८ तदुपर्यपीत्यधिकरणम् ।
तदुपर्यपि च बादरायणः संभवात् ॥ १।३।२६ ॥ अङ्गुष्ठमात्रनिरूपणार्थं मनुष्याधिकारे निरूपिते कस्यचिद अमो
22-C and S real अष्टमात्र for अष्टमाम्रो !