________________
अ. १ पा. ३. २२ ] अणुभाष्यम्
यत्र यत्सर्वदा तिष्ठेत् तत्र चेतन्न भासते । क भासेताप्यपेक्षायां कर्मत्वे श्रुतिबाधनम् ॥ २० ॥ यत्रेत्यधिकरणसममी । यत्र लोकान्तरस्थितानामप्यमानं तत्रामे : का वार्तेति वचनात् सत्यलोकस्थितेः कश्वित्तेजोविशेष एव वाक्यार्थ ५ इत्येवं प्राप्ते । उच्यते ।
1
अनुकृतेस्तस्य । भगवदनुकारार्थमेव तद्वचनम् । स्वती भाननिषेधः पूर्वार्धे । सर्वोपि पदार्थस्तमेवानुकरोति सूर्यं रश्मय इव छाया पुरुषमिव । तस्माद् वाक्ये भगवदनुकारित्ववचनान्न नानार्थकल्पनम् । किंच तस्य भासा सर्वमिदं विभाति ( मुं. २२/१० ) इति सूर्यादीनां स्वतः प्रकाशो नास्त्येव घटवत् । भगवत्प्रकाशेनैव प्रकाशवत्त्वमिति चकारार्थः । तस्मात्स्वतो भाने लक्षणया कर्मत्वे वा भगवत्परत्वे सिद्धे नान्पार्थकल्पनम् || १|३|२२ ॥
८६
अपि स्मर्यते || १।३।२३॥
व्याख्यातेर्थे संमत्यर्थमाह । अपीति समुच्चयः । न तद् भासयते १५ सूर्यो न शशाङ्को न पावक: । (भ.गी. १५/६ ) यदादित्यगतं तेजो जगद्भासयतेखिलम् । यच्चन्द्रमसि यच्चानौ तत्ते जो विद्धि मामकम् । (भ.गी. १५/१२ ) इति च । तस्माद् भगवानेव सर्वावभासकः तमेव सर्वमनुकरोतीति सिद्धम् || १३|२३ ॥ ६ ॥
1
७ शब्दादेव प्रमिताधिकरणम् । शब्दादेव प्रमितः ॥ १।३।२५ ।।
प्रसंगात् पुनर्बाधकान्तरमाशङ्कय परिहरति । अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सति । ( का. २।४।१३ ) । तथा - अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाभूमकः
8-C reads नान्यार्थकल्पनम् for न नानार्थकल्प।
11- S reads भावे for भाने । 19-S reads
देव च for शब्दादेब |