________________
अणुभाग्यम् ।
•पत्तेः । संकेतग्रहविरोधाच्च । सर्वस्यापि पदार्थस्य भगवत्त्वान्नानुपस्थितिदोषः संकेतग्रहेपि ।
जमदग्नीनां पञ्चावत्तमित्यनुमानम् । न हि स्वयं जामदग्न्य इति प्रत्यक्षोनुभवोस्ति । परोक्षव्यवहारस्यैवानुमानत्वमिति ब्रह्मवादः । तस्मात् प्रत्यक्षानुमानाभ्यामिदानीन्तनभौतिकयज्ञपदार्थेषु भगवदवयवावेशस्तथामुत्रापि देवादिलोके । तस्माद्वेदिकः पदार्थः सर्वोप्याधिदैविको भिन्न इति सिद्धम् ॥ १॥३२८॥ साधिका विशेषोपपत्तिमाह।
अत एव च नित्यत्वम् ॥ १।३।२९ ॥ अत एवास्मादेव हेतोर्वेदस्य नित्यत्वम् । सर्वप्रपञ्चवलक्षण्येन । चकाराद् ब्रह्मतुल्यत्वम् । शब्दब्रह्म वेदपुरुष इत्यादिवाच्यत्वम् । अस्यास्तु सृष्टेब्रह्मोपादानस्य सर्वज्ञतया कथनं तन्माहात्म्यनिरूपणार्थम् । बन्धिका ह्येषा । मोचिका तु सा । अत एव ऋषीणामप्यत्र मोहः । नि:श्वसितवचनाच्च । तस्याप्ययं प्राणभूतो नित्य इति । अर्थप्राधान्याद ब्रह्मविद्या परा विद्या । प्रपञ्चभदादेव लौकिकवैदिकशब्दव्यवहारभेदो। तस्मादाधिदैविकप्रतिपादकत्वाद्वेदस्य नित्यत्वम् ॥ १।३।२९ ॥ समाननामरूपत्वादावत्तावप्यविरोधो दर्शनातू
स्मृतेश्च ॥ १॥३॥३०॥ एवं शब्दबलविचारेण वेदप्रामाण्यस्य सिद्धये भिन्न एव प्रपश्चो ह्याधिदैविकः सर्वत्र सिद्धः । इदानीमर्थबलविचारेणोत्तरकाण्डे किंचिदाशङ्कय परिन्हियते दाढार्थम् । नन्वस्य प्रपञ्चस्यानुकारित्वेन वा स्वीक्रियमाणत्वे सृष्टिप्रलययोर्विद्यमानत्वादनित्यसंयोगः प्राप्नोति । तत्राह ।
___ समाननामरूपत्वादावृत्तावप्यविरोधः । वस्तुतस्तु भगवद्रूपत्वादाविर्भावतिरोभावेच्छयैव तथात्वान्नावृत्तिशङ्कापि । तथापि लोक