________________
५ दहराधिकरणम्। अ.१५. सू. १० - प्रसिद्धेश्च ॥ १।३६६७ ।। आकाशशब्दवाच्यत्वप्रसिद्धिः । अपहतपाप्मत्वादिप्रसिद्धिः । किंबहुना प्रकरणोक्तसर्वधर्मप्रसिद्धिर्भगवत्येव न जीवे संभवत्यतोपि भगवानेव दहरः। चकाराद्विधिमुखेनाधिकरणसमापिः सूचिता॥१।३।१७॥
अन्यनिषेधमुखेन पुनर्विचारयति । इतरपगमर्शात्स इति चेन्नासंभवात् ॥ १॥१८॥
नन ब्रह्मैतादृशं जीवो नैतादृश इति न क्वचित्सिद्धमस्ति । श्रुत्येकसमधिगम्यत्वादुभयस्वरूपस्य ब्रह्मवादे । अतो यथा सर्वत्र ब्रह्मणोसा
धारणधर्मदर्शनात्तत्प्रकरणं ब्रह्मण इति निश्चीयते । एवमिहापि जीवस्या१० साधारणधर्मदर्शनाज्जीवप्रकरणमिति कुतो न निश्चीयते । निश्चिते तु तस्मिन्नाकाशतुल्यत्वादयो धर्मा जीवस्यैव भविष्यन्ति नान्यस्येत्यभिप्रायेणाह ।
___ इतरपरामर्शात्सः । इतरो जीवस्तस्य परामर्शः । उपक्रमोपसंहारमध्यपरामशैंः संदिग्धे निर्णयः । तत्रात्मविदः सर्वान्कामानुक्त्वा १५ मध्ये-अथ य एष संप्रसादोस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य
स्वेन रूपेणाभिनिष्पद्यत एष आत्मेति होवाचैतदमृतमभयम् (छां. ८।३।४) इत्यादि मध्ये । अग्रे-अथ य आत्मा स सेतुः ( छां. ८।४।१ ) इति । तत्र संप्रसादः सुषुप्तिः जीवावस्था। तत्र परसंबन्धनिमित्तेन स्वेनैव
रूपेणाभिनिष्पत्तिवचनान्जीव एवैतादृश इति गम्यते । न ह्यत्र परमात्म२. नोयं धर्मः संभवति । अतः सर्वमेव प्रकरणं जीवपरं भविष्यतीति स एव
जीव एव प्रकरणार्थ इति चेत् । न । जीवस्तादृशो न भवति । विरुद्धधर्मत्वेनैव सर्वत्र तन्निश्चयात् । उभयोरेकरूपत्वे ह्युभयत्वमेव न स्यात् । ऋतं पिबन्तावित्यादिवाक्यविरोधश्च अतो न जीवस्तादृश इत्यभिप्राये
णाह । असंभवात् । न हि जीवे जगदाधारत्वादिकं संभवति । न हि १७ परामर्शमात्रेण सर्ववेदान्तविरुद्धं कल्पयितुं शक्यते । परामर्शस्यान्यार्थ
17-B om. अप after अग्रे । A om. अंग्रे before अथ ।