________________
अ. १ पा. ३ म. १५ ] अणुभाष्यम् ।
किं च लिङ्गं च वर्तते । यथैवेह कर्मजितो लोकः क्षीयत एवमेवात्र पुण्यजितो लोकः क्षीयते ( छां. ८।१।६) इति । न हि स्वाज्ञानं स्वस्य संभवति । हिताकरणप्रसक्तिश्च । न च ज्ञानेन सामर्थ्यमुद्धमिति वाच्यम् । विरोधित्वात् । न हि ज्ञाने जाते कर्तृत्वमस्तीति ५ विप्लववादिनोङ्गीकुर्वन्ति । विरुद्धा च कल्पना । अहं ब्रह्मास्मीति । अत एव सर्वभावश्रुतेः तज्ज्ञानं च तस्य सार्वज्ञे लिङ्गम् । तस्य हि स गुणो भगशब्दवाच्यानामन्यतरः । स चेजीव समायाति तत्कृपया तस्येवास्यापि माहात्म्यं भवति । तस्माल्लिङ्गादपि गतिशब्दौ ब्रह्मविषयौ ।
चकारात्-तमेव विदित्वातिमृत्युमति नान्यः पन्था विद्यतेयनाय (श्वे.३१८) ," इति श्रुत्या ब्रह्मत्वेन ज्ञानं नात्मना मोक्षाय । ब्रह्मण एव तु ज्ञानमात्मत्वेनापि । तस्माद दहरः परमात्मा ॥ १।३।१५ ॥
अपरं हेतुमाह। धृतेश्च महिनोस्यास्मिन्नुपलब्धः ॥ १।३।१६॥
धृतेः । अथ य आत्मा स सेतुर्विधृतिरेषां लोकानामसंभेदाय १५ ( छां. ८।४।१ ) इति ।
न हि सर्वलोकविधारकत्वं ब्रह्मणोन्यस्य संभवति । चकारात्सेतुत्वमपि । तदन्वेष्टव्यं तद्विजिज्ञासितव्यम् ( छां. ८।१।१ ) इति लोकविधारणस्य माहात्म्यरूपत्वात्तस्यैव कर्मत्वमित्याह । महिम्न इति । महि
मेष पुरुषस्य । न तु वासनारूपेण तस्मिन् विद्यमानत्वम् । संसारिधर्म२. त्वेनामाहात्म्यरूपत्वात् । न च विरुद्धमुभयत्रैकस्य दर्शनमिति वाच्यम् ।
अस्यास्मिन्नुपलब्धः । अस्यैतादृशविरुद्धधर्माश्रयमाहात्म्यस्यास्मिन् भगवत्येवोपलब्धः । ज्यायानाकाशात् । यावान्वा अयमाकाशः (छां. ८।१।३) अणुः स्थूलः इति । यशोदादयश्च बहि:स्थितमपि जगदन्तः प्रपश्यन्ति । न त्वेतादृशो जीवो भवितुमर्हति । तस्माद् ब्रह्मैव दहरः ॥ १।३।१६॥
1.44) gives reading Forsa: for wür: ad gonnan: for gut
जितः।