________________
८१
५ दहराधिकरणम् । अ. १ पा. ३ म. १५ उत्तरहेतूनां मध्ये हेतुद्वयमाह । गतिशब्दाभ्यां तथाहि दृष्टं लिङ्गं च ॥ १॥३॥१५॥ - गतिशब्दाभ्याम् । गतिर्ब्रह्मलोकगमनम् । एवमेवेमाः सर्वाः प्रजा
अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विदन्ति ( छां. ८।१२ ) इति । एष ५ आत्मापहतपाप्मा सत्यकामः सत्यसंकल्पः ( छां. ८।१।५ ) इति केवलभगवद्वाचकाः शब्दा ब्रह्मलोकशब्दश्च । ननक्तं जीवस्यवैत शब्दा गतिश्च मनोरथादिकल्पितानामिति । तन्निराकरणायाह । तथाहि तथैव गतिशब्दो भगवत्येव युक्तौ । अनुतनापिधानं हि तषां विशेषणम् ।
अज्ञानावेष्टितत्वमित्यर्थः । नत्वज्ञानपरिकल्पितत्वम् । दृष्टत्वात । तथैव १० हि दृश्यते । सर्वोप्याह न किञ्चिदंवदिषमिति । न च गन्तुरभाव एव ।
शास्त्रवैफल्यापत्तः। न ह्यात्मनाश: पुरुषार्थः । कर्मकर्तृविरोधश्च । तथापहतपाप्मत्वं च । तद्विरुद्धधर्माणामनुभवात् । भगवति त्विदानीमब तेषामनुभवः । ध्यानादावुपलब्धेः । पृथिवीशराववदेव जीवब्रह्मविभागो न
त्वज्ञानकृतः । तथाहि । १५ अज्ञानं नाम चैतन्यान्तर्भतं तच्छक्तिरूपमनादि । उत बहि
भूतम् । सांख्यवत् । न । बहिर्भूतं चेत् । सांव्यनिराकरणेनैव निराकृतम् । अन्तःस्थितायाः शक्तिरूपायाः स्वम्पाविरोधिन्या न स्वरूपविभेदकत्वम् । आश्रयनाशप्रसंगात । कल्पना याश्चाप्रामाणिकत्वात् । बाहि:स्थितस्यैव हि भंदकत्वम् । कटारादिवत । २० नापि वायुवत् । तच्छक्तित्वात् । किं च कोयं ब्रह्मवाद प्रद्वेषो यन मिथ्यावादः परिकल्प्यते । अज्ञानादिति चेत् । पीतशवप्रतिभानवानं मतकरणम् । ब्रह्मविदुपासनपानुगमिष्यति । शर्कराभक्षणनेव पीतिमप्रतीतिः । सर्वज्ञेन हि वेदव्यासन भाविमिथ्यावादनिराकरणनंदमधि
करणमारब्धम् । तस्माज्जीवानामेवाज्ञानदर्शनाद्ब्रह्मणः सर्वज्ञत्वदर्शनाद २५ गतिशब्दौ ब्रह्मविषयावेव न जीवविषयौ ।
22-A and C' read पीत for पीतिम ।
११ अणुभाव्य )