________________
अ. ५ पा. स. १४]
अणुभाष्यम् ।
८०
वादो निर्णायते । श्रुत्यर्थो हि निर्णतव्यः । तद्यदिदमस्मिन्वाक्ये परमार्थतो जीव एव ब्रह्म चेच्छास्त्रं च तत्रैव समाप्तं चेद् व्यर्थमधिकरणारम्भः । इदमेव च वाक्यं श्रुत्या वक्तव्यं च भवेत् । तस्मादस्मिन्नधिकरणे मुख्या सर्वसंकरवादादिनिराकृतिः । किं तावत् प्राप्तम् । दहर आकाशो ५ जीव इति । अत्रावान्तरप्रकरणद्वयम् । तत्र द्वितीये प्रजापतिप्रकरणे जीव एवमृताभयरूपः प्रतिभाति । स्पष्टार्थं च द्वितीयप्रकरणम्। तस्मात्प्रथमेपि जीव एव तादृशधर्मवान्भवितुमर्हति। अर्थानुगुण्यमपि व्याख्येयम् । अयमेव जीवो ब्रह्म । अयमात्मा ब्रह्म (बृ. ४।४।५ ) इति श्रुतेः । मैत्रेयीब्राह्मणं चानुगुणं
भविष्यति । तस्य पुरं शरीरं तत्र हृदयकमलं सूक्ष्मम् । तत्राराग्रमात्रो जीव १० एवाकाशः। तास्थ्यात्तव्यपदेश इति। अन्वेष्टव्यस्तु तस्मिन् विद्यमानस्तन्महिमा । वासनारूपेण सर्वं तत्र वर्तत इति । अन्यथोभयत्र सर्वकथनं विरुद्धमापद्येत । भूतानि महाभूतानि पुत्रादयो वा । तं चेद्व्युरित्यादिना नित्यतामुपपाद्यैष आत्मेत्यादिना तस्यैव ब्रह्मत्वमुपदिशति । तज्ज्ञानं च प्रशं
सति । स्वात्मज्ञानिनः कामासद्धिं चाह । य इहेत्यादिना । येपि च १५ विरुद्धा धर्माः प्रतिभान्ति अहरहर्गमनादयस्तेपि स्वकल्पितजीवानां स्वप्नमायामनोरथादिषु तेषामेव गमनागमने प्रति । स्वातिरिक्तस्य ब्रह्मणोभावात् । एवं लोकाधारत्वमपि । ब्रह्मचर्यं च तस्य साधनामिति । योगश्चतयोर्ध्वमायन्नमृतत्वमेति ( क, ६।१६) इति च । तस्माज्जीव एव दहर
इत्येवं प्राप्ते । उच्यते । २० दहरः परमात्मा न जीवः । कुतः । उत्तरेभ्यः । उत्तरत्र वक्ष्यमा
णेभ्यो हेतुभ्यः । तेषामपि साध्यत्वादेवमुक्तम् । जीवो नाम भगवदंशो न भगवानेवेत्यग्रे वक्ष्यते । अंशो नानाव्यपदेशात् (ब्र. सू. २।३४३ ) इति । नापि ब्रह्म तावन्मात्रम् । इदमप्यग्रे वक्ष्यते-अधिकं तु भेदानदेशात्
( ब्र. सू. २।१।२२ ) इति । तस्मादिदं प्रकरणं न जीवब्रह्मविद्यापरम् । २५ किंतु ब्रह्मवाक्यमेवेति ॥ १।३।१४ ॥
16-S reads गमनागमने प्रति स्वातिरिक्तस्य for गमनागमने प्रति । स्वाति
रिक्तस्य । प्रत्येकत्वेन कल्पितजीवचैतन्यातिरिक्तस्येत्यर्थः।