________________
५ दहराधिकरणम् ।
४ ईक्षतिकर्माधिकरणम् | ईक्षतिकर्मव्यपदेशात्सः ॥ १।३।१३ ॥ पञ्चमप्र - एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारस्तस्माद विद्वानेतेनैकतरमन्वेति यद्येकमात्र (प्र. ५२ ) इत्यादिना । एकद्वि५ त्रिमात्रोपासनया ऋग्यजुःसामभिर्मनुष्यलोक सोमलोकसूर्यलोकप्राप्तिपुनरागमने निरूप्यार्ध चतुर्थमात्रोपासनया परं पुरुषमभिध्यायीत । स तेजसि परे सम्पन्नो यथा पादोदरस्त्वचा (प्र. ५/५ ) इत्यादिना परात्परं पुरिशयं पुरुषमीक्षते ( प्र. ५/५ ) इति । तत्र संशयः । परपुरुषः परमात्मा ध्यानविषयः । अहोस्विद् विराट् पुरुषो ब्रह्मा वेति । तत्रामुख्यप्रवाहपतितत्वाद् ब्रह्मलोकं गतस्य तदीक्षणमेव च फलं श्रूयते । न हि परमपुरुषस्य ब्रह्मत्वे तज्ज्ञानमेव फलं भवति । तस्माद विराड् ब्रह्मा वाभिध्यानविषय इत्येवं प्राप्ते । उच्यते ।
७९
१०
[ अ. १ पा. ३ सू. १४
सः अभिध्यानविषयः परपुरुषः परमात्मैव । कुतः । ईक्षतिकर्मव्यपदेशात् । जीवधनात्केवलजीवाधारभूताद् ब्रह्मलोकात्पररूपपुरुष१५ दर्शनमीक्षतिः । तस्याः कर्मत्वेन व्यपदेशादुभयोः कर्मणोरेकत्वमपरं त्रिमात्रपर्यन्तं निरूप्य परं ह्यग्रे निरूपयति । तथैव च श्लोके तिस्रो मात्रा इत्यादि । अभिध्यानस्य हि साक्षात्कारः फलम् । अतः फलरूपज्ञानस्य विषयत्वात् परपुरुषः परमात्मैव । मन्दशङ्कानिवृत्त्यर्थमेवेदं सूत्रम् । अत्र सर्वसङ्करवादिनामन्यथा पाठो भ्रमात् । तत्रापि विचार२० स्तुल्यः || १।३।१३ ॥ ४ ॥
५ दहराधिकरणम् ।
दहर उत्तरेभ्यः ॥ १।३।१४ ॥
अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् ( छां. ८|१|१ ) २५ इत्यादि श्रूयते । तत्र संशयः । किं जीवोन्वेष्टव्यो ब्रह्म वेति जीवब्रह्म