________________
अ. १ पा. ३ सू. १० ] अणुभाष्यम् ।
पद्येत । ब्रह्मत्वपरिग्रहे तु वैयर्थ्यमेव । उपदेष्टृत्वाभावात् । तस्मादक्षरमन्यदेव ब्रह्मधर्मत्वेनोपास्यमित्येवं प्राप्ते । उच्यते ।
७८
1
1
अक्षरं परमात्मैव । कुत: । अम्बरान्तर्धृतेः । श्रुतिं व्याख्याय सिद्धं हेतुमाह । अत्रैक एव प्रश्न उत्तरं चैकम् । आकाशस्यावान्तरत्व५ मेव । तेनाम्बरान्तानां पृथिव्यादीनां विधारकः परमात्मैव । युभ्वाद्यायतनसिद्धो धर्मोत्र हेतुः । न तदशोति कश्वनेति मुख्यतया परिगृहीतो भवति । अन्यथा मूर्ध्नो विपतनं च भवेत् । न ह्यन्यः सर्वाधारो भवितुमर्हति । परोक्षेण ब्रह्मकथनार्थमक्षरपदमन्यनिराकरणार्थं तद्धर्मोपदेशश्र्व । तस्मादक्षरं परमात्मैव ॥ १।३।१० ॥
१०
a fear विधारणं ब्रह्मधर्मत्वेनाश्रितमित्यन्यत्रापि न तथाश्रयितुं शक्यते । नियामकाभावादित्यत आह ।
सा च प्रशासनात् ॥ १।३।११ ॥
सा च विधृतिरत्रादिवाक्ये ब्रह्मधर्म एव । कुतः । प्रशासनात् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिवी विधृते तिष्ठतः (बृ. ३/८/९ ) १५ इति प्रशासनेन विधारणमन्यधर्मो भवितुं नार्हति । अप्रतिहताज्ञाशक्तेभगवद्धर्मत्वात् । तस्मादक्षरं ब्रह्मैव ॥ १।३।१९ ॥
ननूक्तमुपासनापरं भविष्यतीति । तत्राह । अन्यभावव्यावृत्तेश्च ॥ १।३।१२ ॥
अन्यभावव्यावृत्तेः । अन्यस्य भावोन्यभावः । अधर्म इति २० यावत् । तस्यात्र व्यावृत्तेः । अत्रत्वे हि ब्रह्मत्वेनोपासना भवति कार्यकारणभावभेदेन । न ह्यत्र तादृशो धर्मोस्ति । चकाराद्यो वा एतदक्षरमविदित्वा गार्गि (ब्र. ३८/१० ) इत्यादिना शुद्धब्रह्मप्रतिपादनमेव नोपासनाप्रतिपादनमिति । तस्मादक्षरं ब्रह्मैवेति सिद्धम् ||१|३|१२॥३॥
1 -A reads ब्रह्मपरिग्रहे for ब्रह्मत्वपरिग्रहे ।