________________
७७
अक्षराधिकरणम्। [अ. १ पा. 3 सू. १० न हि सुषुप्तेः सर्वत्वादिधर्माः संभवन्ति । आत्मशब्दश्च मुख्यतया परिगृहीतो भवति । भावशब्दस्यापि सर्वत्वाद् भगवति वृत्तिरदोषः । तस्माद भूमा भगवानेव ॥ १।३८ ॥
धर्मोपपत्तेश्च ॥ १॥१९॥ ५ . नान्यत्पश्यतीत्यादयोपि धर्मा ब्रह्मणि न विरुध्यन्ते । स्वाप्ययसंपत्त्योरन्यतरापेक्षमाविष्कृतं हि (ब. सू. ४।४।१६ ) इति न्यायेन । यत्र हि द्वैतमिव भवति (बृ. ४।५।१५) इत्यादि श्रुत्योभयत्राम्नानात् । अन्यादर्शनादयो भगवति न विरुध्यन्ते । चकारात्फलं तस्यैवोपपद्यत इत्याह । स वा एष एवं पश्यन् ( छां. ७२५॥२ ) इत्यादिना सह१. स्राणि च विंशतिः ( छां. ७२६।२) इत्यन्तेन । तेन भूमा ब्रह्मैवेति सिद्धम् ॥ १।३।९॥२॥
३ अक्षराधिकरणम् । अक्षरमम्बरान्तधृतेः ॥१॥३१॥ गार्गीब्राह्मणे । कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति । स होवाच । १५ एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु (बृ. ३।८१७-८ )
इत्यादि श्रूयते । तत्र संशयः । किमक्षरशन्देन पदार्थान्तरं ब्रह्म वेति । तत्राचेतनसाधारण्याद् वर्णतुल्यत्वादाकाशवदस्याप्यब्रह्मत्वमेव । युभ्वायायतनविरोधस्तु तुल्यः । अत एवागतार्थता अदृश्यत्वाधिकरणेन । न हि तत्र विरुद्धधर्मा आशङ्कय निराक्रियन्ते । अतोचेतनतुल्यत्वाद् ब्रह्मवा२० दस्यासमाप्तत्वादाग्रहाविष्टत्वात्प्रष्टुः स्त्रीत्वाञ्च-स्मरो वाव आकाशाद्भूयान् ( छां. ७५१३।१ ) इति वत्कयाचिदुपपत्त्या स्मरणकालभूतसूक्ष्मप्रकृतिजीवविशेषाणामन्यतरपरिग्रह इति वक्तव्यमुपासनार्थम् । अत्र हि प्रापञ्चिकसर्वधर्मराहित्यं ब्रह्मधर्मत्वं च प्रतीयते । तदुपासनार्थत्व उप
0-S reads yor: for Taf: 1 7-C' reads भाति for भवति ।