________________
अ. १ पा. 3 सू. ७ ]
अणुभाष्यम् ।
दनाभ्यां जीवपरमात्मनावेव मध्ये परामृष्टौ । न हि सांख्यमतमेतादृशं भवति । अतोस्य वैशेषिकोपपत्तेर्विद्यमानत्वात्प्रतिलोम्येन सर्वा उपपत्तयो दृढा इति द्युभ्वाद्यायतनं भगवानेवेति सिद्धम् । यद्यपि पैङ्गयुपनिषदि
द्वा सुपर्णेत्यस्यान्यथा व्याख्यानं प्रतिभाति तदृचां प्रदेशविशेषेन्यथा ५ व्याख्यानं न दोषाय । तस्मात् सत्त्वक्षेत्रज्ञौ जीवब्रह्माणौ व्याख्येयौ ॥ ॥ १।१७ ॥ १॥
२ भूमाधिकरणम् । भूमा संप्रसादादध्युपदेशात् ॥ १॥३८॥
इदं श्रूयते । यो वै भूमा तत्सुग्वम् ( छां. ७।२३।१ ) इति सुख१० लक्षणमुक्त्वा भूम्नो लक्षणमाह । यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ( छां. ७२२१) इति । तत्र संशयः । भूमा बाहुल्यमाहोस्विद्ब्रह्मेति । तत्र प्रपाठकारम्भे ततस्त ऊष्य वक्ष्यामीति प्रतिज्ञातत्वाद्वेदादीनां नामत्वमुक्त्वा ततो भयस्त्वं बागादीनां प्राणपर्यन्तानामुक्त्वा मुख्यप्राणविद्याया अवरब्रह्माविद्यात्वख्यापनाया प्रपाठकं समाप्य १५ ततोपि विज्ञानादीनामन्तरङ्गाणां सुखान्तानां मयस्त्वमुक्त्वा सुखस्य फलत्वात्तस्यैव भूयस्त्वं वदति ।
यद्यपि-तरति शोकमात्मवित् ( छां. ७१।३ ) इति नारदप्रश्नाद् भनो ब्रह्मत्वं प्रकरणाद्वक्तुं शक्यते । तथापि तस्यैवाथात आत्मादेश इत्यहंकारादेशवदात्मादेशोप्यस्ति । तनाब्रह्मत्वेपि प्रश्नसिद्धिः । तस्य २० सुखबाहुल्यस्य स्वं महिम्नि प्रतिष्ठितत्वं सर्वतः पर्णविषयलाभेपि भवति ।
सुषुप्तावपीति तयोरन्यतरद् ग्राह्यम् । तत्राप्यन्तरङ्गत्वात्सषुप्तिरवात्र भमत्वेनोच्यते । न सुखबाहुल्यं सपुतिरूपभव भमत्येवं प्राप्त । उच्यते ।
__ भूमा भगवानेव । कुतः । संप्रसादादध्युपदेशात् । संप्रसादः सुषुप्तिः । तस्मादधि आधिक्येनोपदेशात् । यद्यपि नान्यत्पश्यतीत्यादि २५ समानं तथापि स एवाधस्तादित्यादिना तु ततोप्याधिकधर्मा उच्यन्ते ।