________________
७५
१ शुभ्वाद्यायतनाधिकरणम् । [अ. १ पा. 3 मू. ५ ज्ञानन्दरूपादिशब्दाः । अतः संदिग्धा जडधर्मत्वेन प्रतीयमाना अपि ब्रह्मधर्मा एवेति युक्तम् । न हि ब्रह्मवादः श्रुतिव्यतिरिक्त सिद्धीस्ति । येन ब्रह्मधर्माभावो निश्चतुं शक्येत । तस्मात् सर्वाधारत्वेन निरूप्यमाण: परमात्मैव न प्रधानमिति ॥ १।३।३ ॥
प्राणभच्च ॥ १॥४॥ नन्वस्ति निर्णायकं प्राणानामातत्ववचनं-मनोमयः प्राणशरीरनेता ( मुं. २।२।७ ) इति च । अतो जीवधर्माः केचन जडधर्माश्चापरे सर्वज्ञत्वादयोपि योगप्रभावाज्जीवधर्मा इाते । तस्माज्जडजीवविशिष्टः सांख्य
वाद एव युक्त इति चेत् । न । १. प्राणभूज्जीवो न संभवति । अतच्छन्दादेव न ह्यानन्दरूपः स भवितुमर्हति तन्मते । पृथग्योगकरणमुत्तरार्थम् ॥ १।२४ ॥
भेदव्यपदेशात् ॥ १॥३॥५॥ . विशेषहेतुमाह । तमेवैकं जानथ ( मुं. ६।२।५ ) इति कर्मकर्तृभावः प्रतीयते । अतो भेदव्यपदेशान्न प्राणभृज्जीवः ॥ १।३।५ ॥ १५ जीवजडसाधारणनिराकरणाय विशेषहेतुमाह ।
प्रकरणात् ॥ १॥३॥६॥ प्रकरणं हीदं ब्रह्मणः । ब्रह्म देवानामित्यारम्भे स ब्रह्मविद्यामिति । तेषामेवैतां ब्रह्मविद्यामित्यन्ते च । ब्रह्मविद्याया एव प्रकरणित्वमवगम्यते । ब्रह्मैवेदममृतं पुरस्तात् ( मुं. २।२।११ ) इत्येवमादिभिर्विस्पष्टो ब्रह्मवादः २. प्रतीयते ॥ १।३६॥ सर्वस्याप्यन्यथाभावशङ्कया विशेषहेतुमाह ।
स्थित्यदनाभ्यां च ॥ १॥३॥७॥ द्वा सुपर्णेति वाक्ये-अनश्नन्नन्यो अभिचाकशीति ( मुं. ३।१।१ ) इति केवलस्थितिः परमात्मनः । कर्मफलोपभोगो जीवस्य। अतः स्थित्य
2-क reads श्रुतिव्यतिरिक्तः for श्रुतिव्यतिरिक्त ।