________________
अ. १ पा. : स्. १]
अणुभाष्यम् ।
७४
युभवाद्यायतनं ब्रह्मैव । द्यौर्भूश्चादिर्येषां ते द्युभवादयस्तेषामायतनम् । यस्मिन्द्योरिति वाक्योक्तानां साधकं वदन् प्रथमपरिहारमाह । स्वशब्दात् ।
शब्दो व्याख्यातः स्वशब्देन । अत्र न जीवस्यात्मत्वेनोपासनार्थमात्मपर किंतु पूर्वोक्तानामात्मभूतं तेन न भारकृतो दोषः । कारणे हि ५ काबमोतं भवति सेतुत्वं च युज्यते । तज्ज्ञानेनामृतत्वप्रात्वेः । अभेदेपिब्रह्मविदाप्नोति परम् ( ते. २।१) इतिवदर्थः । तस्मादबाधितार्थत्वालक्ष्यस्य सर्वगतत्वव्युत्पादकत्वाद् द्युभ्वाद्यायतनं ब्रह्मैव ॥ १।३।१ ॥
मुक्तोपमृप्यव्यपदेशात् ॥ १॥३२॥
ननु चोक्तं सर्वविज्ञानस्योपक्रान्तत्वादन्यवाग्विमोको विरुद्ध इति । १० नेष दोषः।
___ मुक्तोपसृप्यव्यपदेशात् । मुक्तानां जीवन्मुक्तानां शरीराध्यासरहितानामवान्तरप्रकरणशरधनुायेन ब्रह्मत्वेन ज्ञातं पृथक्त्वेन वा जीवं लक्ष्ये योजयितुं तदुपसृप्यता व्यपदिश्यते । तेन शरीराद्यध्यासविशिष्टं न
ब्रह्मणि योजनीयमिति । १५ किंच । वाग्विमोक एव न वस्तुविमोकः । वस्तुनो ब्रह्मत्वात् । वाचारम्भणमात्रत्वाद्विकारस्य । अतो न सर्वविज्ञानबाधः । अतो बाधकाभावादिदं ब्रह्मवाक्यमेव ।
ये तु श्रुतेरन्यथार्थत्वं कल्पितमतानुसारेण नयन्ति ते पूर्वोत्तरस्पष्टश्रुतिविरुद्धार्थवादिन उपेक्ष्याः॥ १।३।२॥
नानुमानमतच्छब्दात् ॥ १॥३॥३॥ ननु जडधर्मा जडदृष्टान्ताः प्रकरणे बहवः सन्ति । अरा इव ब्रह्मपुरे मनोमय इत्यादि । तस्मात्प्रकृतिपुरुषनिरूपकसांख्यानुमापकमेवैतत्प्रकरणमस्तु । निर्णीतमप्यक्षराधिकरणे जडधर्मात्पुनरुज्जीवनम् । तस्मा
द्युभवाद्यायतनं प्रकृतिरेव भवितुमर्हतीति चेत् । २५ न अनुमानं तन्मतानुमापकं न भवति । कोपि शब्दो निःसंदिग्ध
स यापको नास्ति । ब्रह्मवादख्यापकास्तु बहवः सन्ति आत्मसर्व
20