________________
१ धुभ्वाद्यायतनाधिकरणम्। [अ, १ पा. 3 स. ५ अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ( भा. १०।८।४०) इत्युलखलबन्धने चायमर्थो निर्णीतः। तस्मादानन्दांशस्यैवार्य धर्मो यत्र स्वाभिव्यक्तिस्तत्र विरुद्धसर्वधर्माश्रयत्वमिति चकारार्थः । तस्मात्पादेशमात्रो व्यापक इति वैश्वानरो भगवानेवति सिद्धम् ॥ १।२।३२॥८॥ १ ॥ इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणुभाष्ये
प्रथमाध्यायस्य द्वितीयः पादः ॥ १।२ ॥
प्रथमाध्याये तृतीयः पादः।
१ युभवाद्यायतनाधिकरणम् । धुभ्वाद्यायतनं स्वशब्दात् ॥ १।३।१ ॥ द्वितीयपाद आधेयरूपो भगवान् प्रतिपादितः । आधाररूपोत्र प्रतिपाद्यते । तेन सर्वं ब्रह्मेति फलिष्यति ।
बाधकानां बलिष्ठत्वात्साधकानामभावतः। आधारधर्मा बाध्येरन्निति पादोभिधीयते ॥ १८ ॥
इदं श्रूयते । यस्मिन्यौः पृथिवी चान्तरिक्षमातं मनः सह प्राणैश्च १५ सर्वैः । तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ( मुं. २।२।५) इति ।
यस्मिन्नित्यादिवाक्ये च वाक्यार्थः सर्वबाधितः । अर्थात्प्रकरणाल्लिङ्गादिति पूर्व विचार्यते ॥१९॥
अत्र संशयः । द्युभवाद्यायतनं ब्रह्म । आहोस्वित्पदार्थान्तरमिति । २० अर्थान्तरमेव भवितुमर्हति । युभ्वादीनां सूत्रे मणिगणा इव प्रोतानां भार
त्वान्न तद्वाहकः परमात्मा । अन्यवाग्विमोकश्चासंगतः । एकविज्ञानेन सर्वविज्ञानस्य पृष्टत्वात्कथमन्यविमोकः । सेतुश्च गतिसाधनः । तस्मादफलत्वमपि । आत्मलाभान्न परं विद्यत इति विरोधश्च । अतो न ब्रह्मविद्यापरमेतद्वाक्यं किंतु स्मृतिमूलं भविष्यतीत्येवं प्राप्त उच्यते ।
१ अस्याधिकरणस्य नाम वेदान्ताधिकरणमालायां न लभ्यते । १० [ अणुभाण्य]