________________
अ. १ पा. २ सू. ३१ ]
अणुभाष्यम् ।
मूर्धप्रभृतिषु चित्रकपर्यन्तेषु सम्पादयन् प्रादेशमात्रमिह वै देवाः सुविदिता अभिसंपन्नास्तथा तु व एतान् वक्ष्यामि यथा प्रादेशमात्रमेवाभिसंपादयिष्यामीति स होवाच मूर्धानमुपदिशनेष वा अतिष्ठा वैश्वानरः (बृ. जाबालशा . ) इत्यादिना । संपत्तिनिमित्तमेव प्रादेशमात्रत्वं वैश्वानरस्याह । नतु ५ प्रादेशमात्र एव वैश्वानर इति तदेकदेोशिपरिहारं जैमिनिर्मन्यते ॥ १।२।३१॥ आमनन्ति चैनमस्मिन ॥ १।२।३२ ॥
१०
७२
मुख्यं स्वसिद्धान्तमाह । व्यापक एव प्रादेश इति नहि विरुद्धमुभयं भगवत्यनवगाह्यमाहात्म्ये । तस्मात् प्रमाणमेवानुसर्तव्यम् । न युक्तिः । शब्दबलविचार एवं मुख्यः । नतु प्रातीतिकविरोधादन्यथात्वकल्पनम् । वैश्वानरस्य पुरुषत्वं पुरुषविधत्वं पुरुषेन्तः प्रतिष्ठितत्वं च वाजसनेयिनः समामनन्ति । नहि तस्य तद्विधत्वं तस्मिन्प्रतिष्ठितत्वं च संभवति युक्तया । अतोन्ये ऋषयो भ्रान्ता एव । येन्यथा कल्पयन्तीत्यभिप्रेत्य स्वमतमाह ।
1
एवं वैश्वानरमस्मिन्मूर्धचिबुकान्तराले जाबालाः समामनन्ति । एषोनन्तोव्यक्त आत्मा योविमुक्ते प्रतिष्ठित इति सोविमुक्तः कास्मन्प्रतिष्ठितः १५ ( जा. १ ) इत्यादिना भ्रुवोः प्राणस्य च यः सन्धिः स एष द्योर्लोकस्य परस्य च सन्धिर्भवतीति न ह्यनन्तः संकुचितस्थाने भवति विशेषणवैयर्थ्यापत्तेः । युक्तिगम्या त्वब्रह्मविद्यैव । अविरोधेपि वक्ष्यति । श्रुतेस्तु शब्दमूलत्वात् ( ब्र. सू. २।१।२७ ) इति । ननु तथापि काचिद्वेदानुसारिणी युक्तिर्वक्तव्या शास्त्रसाफल्यायेति चेत् । उच्यते । विरोध एव नाशङ्कनीयो २० वस्तुस्वभावात् । अयःकान्तसंनिधौ लोहपरिभ्रमणे या युक्तिर्गर्भस्यौदर्यादाहे रेतसो मयूरत्वादिभावे । न हि सर्वत्र स्वभावदर्शनाभ्यामन्योपपत्तिः कैश्चिदपि शक्यते वक्तुम् । तस्यान्ते सुषिरम् (ना. १३।२) इत्यादिना श्रुतिरेव - मेवाह । यशोदास्तनन्धयस्य च भगवतो मुखारविन्दे विश्वमेव दृष्ट्वा स्वप्नमाया विद्यानिराकरणाय सिद्धान्तमाह ।
1
20 - A reads सूक्ति: for युक्तिः ।
23-D and E read स्वमाया for स्वप्ननाया