________________
40
२०
अ. १ पा. ३.१९ ]
अणुभाष्यम् ।
त्वमुत्तरत्र वक्ष्यति । तस्माद दहरो जीवो न भवितुमर्हति । वाक्यार्थो थोपपद्यते तथोत्तरत्र वक्ष्यते । ब्रह्म त्वेकमेव नोभयमिति निश्चयः ॥ १।३।१८ ॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १।३।१९ ॥
उत्तरात्प्रकरणात्प्राजापत्यात् । तत्र हि दिव्ये चक्षुषि मनोरूने प्रतीयमानो जीव एवामृताभयरूपो निरूपितः । तस्यैवोदशरावे जाग्रत्साक्षित्वं तदनु स्वप्नसाक्षित्वं तदनु सुषुप्तिसाक्षित्वं निरूप्य सर्वत्र तस्यामृतरूपत्वंभव निरूप्यावस्थानामतात्त्विकत्वमुक्त्वा समाध्यवस्थायां मनसि तमेव जीवं तादृशं प्रतिपादयत्यतो जीवोपि वस्तुतस्तादृश एवेति प्रकृतेपि परामर्शात्स एवेति चेत् । एवमाशङ्कय परिहरति तुशब्देन । नायमर्थो दुष्यंते किंतु किंचिदन्यदस्तीति न नकारप्रयोगः । तदाह । आविर्भूतस्वरूपः । स्वाप्ययसंपत्त्याभगवदाविर्भावो जीवे भवति । नृसिंहोपासकस्य नृसिंहाविर्भाववत् ब्रह्मण उपदेशसमये भगवदाविर्भावात् । सर्वत्र स्वात्मानं पश्यन्निन्द्रेपि तथैवोपदिष्टवान् प्रजापतिः । अन्यथा प्रतिबिम्बादावमृताभयवचनं मिथ्या स्यात् । इन्द्रे त्वाविर्भावाभावात्प्रजापत्यसंनिधाने विपरीतं पश्यति अतस्तावन्मात्रदोषपरिहारायान्यथोपदेश: स्वप्नादिषु तथा प्रकृतेपि । सुषुप्तावस्थायां भगवदाविर्भावात्तथा वचनम् । तस्मादुभयमपि भगवत्प्रकरणमेव । एवमन्यत्रापि भगवदावेशकृता भगवद्धर्माभिलापा ग्राह्या: । तस्माद् दहरः परमात्मैव || १३ | १९. ॥
परामर्शस्य प्रयोजनमाह ।
अन्यार्थश्च परामर्शः ॥ १।३।२० ॥
अन्य एवार्थः प्रयोजनं यस्य । तस्माद् यमहरहर्वा एवंवित स्वर्गमेति । स्वस्यैवं ज्ञानं हि ब्रह्मसुखं फलं ब्रह्मज्ञानापेक्षायामुपयुज्येत । भगवतश्व तदाविर्भावां भवतीति चकारार्थः । संपत्तौ भगवदावेशकथनार्थं
17- Breads स्वप्नावस्थायां for सुषुप्तावस्थायां ।
10-A, C, M, 1) and E read ऊह्याः for ग्राह्याः । 23-S reads स्वर्गलोक for स्वर्ग |
(0