________________
८ वैश्वानराधिकरणम् ।
[अ. १ पा. २ सू. २६
पादेशमात्रवैश्वानरप्रतिपादकजातीयानां न ब्रह्मवाक्यत्वं स्यात्तदा स्मरणं नोपपद्येत । अत इति हेतोः प्रादेशमात्रवैश्वानरो भगवानेवेति सिद्धम् ॥ १।२।२५॥
शब्दादिभ्योन्तः प्रतिष्ठानाञ्च नेति चेन तथा दृष्ट्युपदेशाद५ संभवात्पुरुषमपि चैनमधीयते ॥ १॥२॥२६॥
किंचिदाशङ्कय परिहरति । ननु यदि स्मर्यमाणमनुमानं स्यादिति वाक्यार्थों निर्णीयते तदा स्मृत्यन्तरेणान्यथापि व्याख्येयम् ।
अहं वैश्वानरो भूत्वा प्राणिनां देहमास्थितः । प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ॥
इति ( भ. गी. १५।१४ ) जाठर एवाग्निर्वैश्वानरो भवति तस्यैव भगवद्विभूतित्वाद्वाक्यार्थों यथाकथंचिद् योजयिष्यते । न तु विरुद्धधर्माणां विद्यमानत्वाद् भगवत्परत्वं वाक्यस्य । विरुद्धधर्माः शब्दादयोन्तःप्रतिष्ठानं च । अग्निर्वैश्वानर
इति शब्दः केवलवैश्वानरे भवेत् । भगवत्परत्वं योगेन तदग्निसाहचर्याद१५ निरेव भवेत् । तस्यैव च त्रेताग्निकल्पनमुपासनार्थम् । प्राणो हि देवताः
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् (छां. ५।१०।१ ) इत्यादिना । तदेतेभ्यो हेतुभ्योन्तःप्रतिष्ठितत्वमपि न भगवद्धर्मः । पुरुषेन्तप्रतिष्ठितं वेद (श. बा. १०।६।१।११) इति भिन्नहेतुर्हेतुहेतुश्च भवतीति न
चकारः । तस्माद्विरुद्धधर्माणां विद्यमानत्वान्न भगवान् वैश्वानर इति चेत् । २० न । तथा दृष्टयुपदेशात् । सर्वभोक्तृत्वं भगवतो वक्तुं तथा दृष्टिरुपदिश्यते।
विरुद्धधर्माणां तत्तद्भावापत्तिरित्यैश्वर्यमेव भगवतो वर्णितम् । तर्हि कार्यवाक्यमेवास्तु स्मृत्यनुरोधादिति चेत्तत्राह । असंभवात् । नहि तस्य थुमूर्धत्वादयो धर्माः संभवन्ति । उपचारादुपासनार्थं परिकल्पनं भविष्यतीति
चेत् न । पुरुषमपि चैनमधीयते वाजसनेयिनः । स एषोनिर्वैश्वानरो २५ यत्पुरुषः स यो हैतमेवाग्निं वैश्वानरं पुरुषविधं पुरुषेन्तः प्रतिष्ठितं वेद