________________
अ. १ पा. २ सू. २४] अणुभाज्यम् । वा अग्निर्वैश्वानरः (बृ. वा. शा.सप्तानबा.) इति श्रुतेः । संवत्सरस्य प्रजापतित्वाच्च हिरण्यगर्भोपासनापरमिति गम्यते । ब्रह्मात्मशब्दावपि हि तत्रैव युक्ततरौ। तदुपासकस्यैवान्नभोजनत्वमपि सर्वत्र युक्तम् । प्रादेशमात्रत्वमपि मुख्यजीवत्वादस्मदाद्यपेक्षया स्थूलत्वाद्यभिप्रायम्। विराडभिमानित्वाच्च ५ लोकावयवत्वम् । वेदगर्भत्वादग्नित्रयात्मकत्वमिति । तस्माद्धिरण्यगर्भोपासनापरमेवैतद्वाक्यं न भगवदुपासनापरमित्येवं प्राप्त उच्यते ।
वैश्वानरः परमात्मैव । कुतः । साधारणशब्दविशेषात् । साधारणशब्दाद्विशेषः । ये पूर्वपक्षे साधारणशब्दा हिरण्यगर्भपरतया ततोपि विशेषोस्ति येन भगवानेव वैश्वानरो भवति । प्रादेशमात्रस्यैव द्युमर्ध१० त्वादिधर्मः । न हि विरुद्धधर्माश्रयत्वं भगवद्व्यतिरिक्ते संभवति । सर्वभवन
सामर्थ्याभावात् । साधारणाद् धर्माच्छब्द एव विशेष इति वा । विशेषादित्येव वक्तव्ये साधारणशब्दशब्दौ प्रादेशमात्रस्यैव वैश्वानरशब्दवाच्यत्वं द्युमर्धत्वादिकं तस्यैवेति समासेन द्योतयतः । अन्यथा विरोधाभावात् ।
यदपि लोकात्मकं स्थूलं रूपं तदपि भगवत एव न हिरण्यगर्भस्येति । १५ पुरुषत्वात्तस्य । विश्वस्य जडस्य नरस्य जीवस्य च भगवदंशत्वेन
देवतात्वात्-देवताद्वन्द्वे च ( पा. सू. ७।३।२१) इति विश्वानरौ तौ निवासो यस्येति-तस्य निवासः ( पा. सू. ४।२।६९ ) इत्यण् । तन परमेश्वर एव वैश्वानरो भवति नान्यः । भगवदंशत्वादन्यत्रोपचारात्प्र
योगः । तस्माद्वैश्वानरः परमात्मा ॥ १।२४ ॥ २० स्मर्यमाणमनुमानं स्यादिति ॥ १॥२॥२५॥ व्याख्यानेन भगवत्परत्वाद्वाक्यस्य प्रमाणान्तरमाह ।
केचित्स्वदेहे हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् । चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति ॥
( भा. २।२।८) इति । २५ स्मर्यमाणं रूपमनुमानं स्यात् । प्रादेशमात्रवैश्वानरस्य ब्रह्मत्वे ।
स्मरणं हि मननं श्रुतस्य भवति । श्रुतिवाक्येभ्य एवं हि श्रवणं यदि
(भा शक