________________
६७
८ वैश्वानराधिकरणम् । [अ. २ पा. १ सू.२४ रूपोपन्यासाच्च ॥ १।२।२३॥ अग्निर्मूर्धा चक्षुषी ( मुं. २।१।४ ) इत्यादिरूपं न हि प्रकृतिपुरुषयोरन्यतरस्य संभवति । ब्रह्मवादे पुनर्विश्वकायस्यैतद्रूपम् । सूत्रविभागात् पुनर्विभागात्पुनर्मुख्योपपत्तिरेषेति सूचितम् । चकारेण श्रुत्य५ न्तराविरोध एकवाक्यता च सर्वेषां वेदान्तानामिति । तस्मादक्षरशब्देन पुरुषशब्देन च ब्रह्मैव प्रोक्तमिति ब्रह्मविद्येवैषेति सिद्धम् ॥ १।२।२३॥७॥
८ वैश्वानराधिकरणम् । वैश्वानरः साधारणशब्दविशेषात् ॥ १।२।२४ ॥
अधिकरणत्रयेण भोगमुपपाद्य पूर्वाधिकरणे दृश्यत्वादिगुणानुक्त्वा • प्रसंगाद्रूपमुपन्यस्तम् । अधुना साकारब्रह्मतामुपपादयितुमिदमधिकरणमारभ्यते को न आत्मा कि ब्रह्मेति । आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव नो ब्रीति चोपक्रम्य युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोगमेकैकोपासननिन्दया च मूर्धादिभावमुपदिश्याम्नायते-यस्त्वेतमेवं प्रादेशमात्रमभिविमानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्व५५ ष्वात्मस्वन्नमत्ति तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाचक्ष
विश्वरूपः प्राणः पृथग्वात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिलोमानि बर्हिर्हृदयं गार्हपत्यो मनोन्वाहार्यपचनमास्यमाह्वनीयः ( छां. ५।१८।२) इत्यादि । तत्र संशयः । किं वैश्वानर
शब्देन ब्रह्म प्रतिपादयितुं शक्यते न वेति । अर्थस्यातिसंदिग्धत्वात्संदेहः । २० तत्रोपक्रमे ब्रह्मात्मपदप्रयोगोस्ति नान्यत्किंचित् । उपपादने त्वतद्धर्मा
एव । साकारस्य तु लोकन्यायेनाब्रह्मत्वम् । वैश्वानरो यद्यप्यग्नावेव पसिद्धस्तथापि पूर्वकाण्डसिद्धत्वाद्देवतात्मपरिग्रहो युक्तः । ततश्च संवत्सरो
3-C reads विश्वाकारस्य for विश्वकायस्य ।
-S and वि. F read श्रुत्यन्तरविरोध for श्रुत्यन्तराविरोध । 11-A and B read आरभत for आरभ्यते ।