________________
अ. १ पा. २ . २१ ]
अणुभाष्यम् ।
६६
ब्रह्मत्वमाह । अदृश्यत्वादिगुणकः परमात्मैव । कुतः । धर्मोक्तेः । तथाक्षरात्संभवतीह विश्वम् ( मुं. १।१७ ) इति । इयं चोपनिषत् । न ह्यन्यत्र ब्रह्मव्यतिरिक्ताज्जगदुत्पत्तिरस्ति । पुरुषस्य ब्रह्मत्वं निःसंदिग्धमेव । ईषदानन्दतिरोभावेन ब्रह्माक्षरमुच्यते । प्रकटानन्दः पुरुष इति । ब्रह्मविदाप्नोति ५ परम् (तै. २1१ ) इत्यत्रैव तथा निर्णयात् । तस्माददृश्यत्वादिगुणकः परमात्मैव ॥ १।२।२१ ॥
१०
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ १।२।२२ ॥
ननु पूर्वपक्षन्यायेन ब्रह्मविद्याख्यायामपि स्मृतिः ब्रह्मविद्यैवास्तु | द्वे ब्रह्मणी वेदितव्ये मूर्तं चामूर्तं च (मे. ६।२२ ) इत्यत्र विकारस्यैव ब्रह्मपदवाच्यत्वम् । अतः प्रकृतिपुरुषावेव वाक्यार्थ इति परिहरति ।
इतरौ न भवतो वाक्यार्थरूपौ । कुतः । विशेषणभेदव्यपदेशाभ्याम् । विशेषणभेदो व्यपदेशश्च ताभ्यामदृश्यत्वादयो गुणा न प्रकृतेर्भवन्ति सर्वस्यापि तद्विकारत्वात् । न हि घटदर्शनेन मन्न दृश्यत इति वदितुं युक्तम् | ब्रह्मवादे पुनः सर्वभवनसमर्थत्वाद् ब्रह्मणि विरोधाभावः । नहि १५ नित्यं सदैकरूपं विक्रियमाणं च भवितुमर्हति । सर्वब्रह्मधर्मतुल्यत्वे तदेव ब्रह्मेति जितं ब्रह्मवादिभिः । यः सर्वज्ञः सर्वविद (मुं. १1१1९ ) इत्यादयस्तु सुतरामेव न प्रकृतिधर्माः । व्यवधानाच्च न पुरुषसंबन्धः । अक्षरनिरूपण एवं पुरुषविशेषणाच्च । येनाक्षरं पुरुषं वेद सत्यम् ( मुं. २/१३ ) इति तस्मादक्षरविशेषणानि न प्रकृतिविशेषणानि नापि २० पुरुषविशेषणानि सांख्यपुरुषस्य । नहि दिव्यत्वादयो गुणाः पुरुषस्य भवन्ति । न हि तन्मते पुरुषभेदो ह्यङ्गीक्रियते जीवब्रह्मवत् । न च तस्य बाह्याभ्यन्तरत्वं सर्वत्वाभावात् । न हि तस्माज्जायते प्राणादिः । तस्मात्पुरुषविशेषणान्यपि न सांख्यपुरुषविशेषणानि । अतो विशेषणभेदो व्यपदेशभेदश्व ब्रह्मविद्येवैषेति । स ब्रह्मविद्यां सर्वविद्यामित्युपक्रमेमोवाच तां तत्त्वतो ब्रह्मविद्याम् (मुं. १२/१३ ) इति मध्ये - तेषामेवैतां ब्रह्मविद्यां वदेत्यन्ते । तस्मान्न सांख्यपरिकल्पितौ प्रकृतिपुरुषौ वाक्यार्थः । नहि ब्रह्मा ज्येष्ठपुत्राय स्मृतिरूपां विद्यां वदतीति चकारार्थः ॥ १।२।२२ ॥
२५