________________
७ अदृश्यत्वाधिकरणम् । [अ. १ पा. २ सू.२१ द्वयेपि एनं जीवं भेदेनैवाधीयते ब्राह्मणाः । निःसंदेहार्थमुभयग्रहणम् । यो विज्ञाने तिष्ठन्निति काण्वाः । य आत्मनि तिष्ठन्निति माध्यन्दिनाः । न चात्मशब्देनान्यः संभवति । अन्येषां पूर्वमेव पठितत्वादन्ते हि जीवमाह। तस्मादन्तर्यामिब्राह्मणे ब्रह्मैव वाक्यार्थ इति सिद्धम् ॥ १।२।२० ॥ ६ ॥
७ अदृश्यत्वाधिकरणम् । अदृश्यत्वादिगुणको धर्मोक्तेः ॥ १।२।२१ ॥
मुण्डके हि श्रूयते । कस्मिन्नु भगवो विज्ञाते ( मुं. १।१।३) इति पृष्टे-द्वे विद्ये वेदितव्ये ( मुं. १।१।४ ) इत्युत्तरमाह ।
तत्र नामरूपात्मकजगतो विज्ञानार्थं नामांशे वेदादिरूपांशे परा १० च । तत्र वेदादिविद्यायां न संदेहः । परायां संदिह्यते किमेषा सांख्य
मतविद्या ब्रह्मविद्या वेति । सांख्यधर्माभिलापात्संदेहः । अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुश्श्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययम् । यद्भूतयोनि परिपश्यन्ति धीराः
( मुं. १।१।५-६ ) इत्यादि । अग्रे च दिव्यो ह्यमूर्तः पुरुषः सबाह्या१५ भ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ( मुं. २।१।२)
इत्युक्त्वा-एतस्माज्जायते ( मुं. २।१।३) इति निरूप्य-आग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो ( मुं. २।१।४ ) इत्यादिना रूपमुक्त्वा पुनः पुरुषात्सृष्टिमाह । तत्रैकप्रकरणत्वादेकवाक्यता वक्तव्या। तत्राक्षरपुरुषयोर्भेदः प्रतीयते । तयो
रुभयोरपि सृष्टिः । तद् ब्रह्मवादे न संगच्छते । तस्मात्सांख्यमतमेवैतत् । २० प्रकृतिपुरुषयोः श्लिष्टत्वादन्यतरप्राधान्येनोभयोः स्रष्टुत्वम् । उभयात्मकत्वा
ज्जगतः । रूपमपि समष्टिव्यष्टीनामग्रे ह्युत्पत्तिरिति तिरोहितरूपत्वान्न ब्रह्मविद्या किंतु स्मृतिरेवेति ब्रह्मविद्या वेदविद्योपचारावति । एवं प्राप्त उच्यते।
अदृश्यत्वादिगुणकः परमात्मैव ब्रह्मविज्ञानेनैव सर्वविज्ञानात् । २५ तत एव विद्याया अपि परत्वम् । अक्षरस्यापि ब्रह्मत्वम् । पुरुषस्यापि तयोः परापरभावो भेदश्च । एतादृश एव हि ब्रह्मवादः। तत्र प्रथममक्षरस्य
९ [ अशुभाष्य ]