________________
अ. १ पा. २ सु. १८ ]
अणुभाष्यम् ।
६४
विशेषेण भगवत्यपदिश्यन्त । सर्वेषां तत्तत्कार्यसामर्थ्यं च भगवतो न तु स्वतस्तेषामिति । एवं सत्यन्यत्सर्वं संगतं भवति तस्माद् ब्रह्मवाक्यमेव । अन्यथा त्वधिकरणरचना अन्तस्तद्धर्माधिकरणेन गतार्थत्वादयुक्तैव । ।१।२।१८ ॥
न च स्मार्तमतद्धर्माभिलापात् ॥ १।२।१९ ॥
ननु ब्रह्मवादन्तर्यामी न प्रसिद्धः । जीवब्रह्मजडानामेव प्रसिद्धत्वात् । अतोन्तर्यामिणः सांख्यपरिकल्पितस्य गुणयोगात्तादृशस्य ब्रह्मत्वे वा कः पुरुषार्थो भवेत् । नहीश्वरं प्रकृतिधर्मारूढमन्तर्यामिणं मन्यन्ते तादृशस्योपनिषत्स्वभावात्पूर्वपक्षन्यायेन स्तुतिपरता तन्मतस्य चाश्रौतत्व - १० मित्याशङ्कच परिहरति ।
न च स्मार्तं स्मृतिप्रसिद्धं स्मार्त सांख्यमतसिद्धमिति यावत् । तादृशमन्तर्यामिरूपमत्र भवितुं नार्हति । कुतः । अतद्धर्माभिलापात् । तद्धर्माणामनभिलापात् । तद्विरुद्धधर्माणां चाभिलापात् । न ह्यत्र सत्त्वरजस्तमोगुणास्तत्कार्यं वालिप्यते तद्विरुद्धाश्चैते धर्मा यस्य पृथिवी १५ शरीरमित्यादि । तस्मात्सांख्यपरिकल्पितं नान्तर्यामिरूपमत्र भवितुमर्हतीति सिद्धम् । एवं सति ब्रह्मधर्मा एवैतं भवन्तीति ब्रह्मवाद: फलिष्यति ॥ १।२।१९ ॥
शारीरश्वोभयेपि हि भेदेनैनमधीयते ॥ १।२।२० ॥ ननुक्तन्यायेन शारीर एव भवतु को दोषः किमिति ब्रह्मपरत्वं २.० कल्प्यमिति । तत्राह ।
शारीरश्व नेत्यनुवर्तते । शारीरश्र्व जीवो नान्तर्यामिब्राह्मणे तत्तदभिमानिरूपो यस्य पृथिवी शरीरमिति वाक्यानुरोधेन भवितुमर्हति ततोपि भिन्नतयान्तर्यामिणो वचनात् । उभयेपि काण्वमाध्यन्दिनब्राह्मण
1-S reads भगवत्यपि दृश्यन्ते ( and explains अभिमानिष्विव भगवति अपि भासन्त इत्यर्थः ) for भगवत्यपदिश्यन्ते and वि. नू. reads भगवत्युपदिश्यन्ते for the same.