________________
६ अन्तर्याम्यधिकरणम् ।
६ अन्तर्याम्यधिकरणम् |
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १।२।१८ ॥
१०
य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयति (बृ. ३७ १ ) इत्युपक्रम्य श्रूयते । यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी ५ न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः (बृ. ३७१२ ) इत्यादि । तत्राधिदैवमधिलोकमधिवेदमधियज्ञमाधभूतमध्यात्मं च कश्चिदन्तरवस्थितो यमश्रितान्तर्यामीति श्रयते । तत्र संशयः । किमन्तर्याम्यधिदैवादिषु सर्वत्रक एव । अथाधिदैवादीनां नामभेदाद् भिद्यत इति । सामान्यतस्तु - अन्तस्तद्धर्मोपदेशात् (ब. सू. १११।२० ) इति न्यायेनात्रापि ब्रह्मत्वं सिद्धमेव । तथा शब्दभेदात्संदिह्यते । अधिदैवादिषड्भेदा आधारधर्मा भगवत्युपचर्यन्ते । अथवा संज्ञाविशिष्टा अन्य एवेति तत्र तत्तदधिकृत्य यो वर्ततेभिमानेन तस्य तादृशशब्दप्रयोगः । अधिलोकादयश्व शाखान्तरेन्यत्रैव प्रसिद्धा योगख्यापकाः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्योतिषमित्यादि । अतोधिदैविकादिशब्दा यौगि१५ काः सन्तो न भगवति वर्तितुमुत्सहते । नाप्यन्ये कल्पनीया यद्धर्मां उपचाराद्भगवति भवेयुः । कल्प्यमानस्य सर्वानुस्यूतस्य तादृशस्य भगवद्व्यतिरिक्तस्यासंभवात् । तस्मादन्तर्यामिब्राह्मणं कुत्राप्ययुक्तं सत् तत्तदभिमानिदेवतास्तुतिपरमेव तत्तदुपासनार्थं भविष्यति । अज्ञानं चासंदेहे संदेहवदुपपद्यते । देहोसवोक्षा ( मा. ६/४/२५ ) इति न्यायाद्वा । न तु निषिद्धसंज्ञा भगवति कल्पयितुं शक्येति । एवं प्राप्त उच्यते ।
२०
६३.
[ अ. १ पा. २ सू. १९
अन्तर्याम्यधिदैवादिषु । अन्तर्याम्यधिदैवादिषु भगवानेव नान्यस्तादृशो भवितुमर्हति । ननु चोक्तं भगवति कथं निषिद्धकल्पनमिति । तत्राह । तद्धर्मव्यपदेशात् । तेषां धर्मास्तद्धर्माः तत्प्रयुक्तिबोधकाः । ते
8-Bom. नाम aiter देवादीनां ।
S-वि. मृ. reads अधिदैवादिनाम for अधिदेवादीनां नाम । 21-S reads अधिदेवादिष्वन्तर्यामी for अन्तयाम्यार्धदवादिषु ।