________________
अ. १ पा. २ सू. १५ ]
अणुभाष्यम् ।
६२
मिति सुखमेव निर्दिष्टम् । अतः सुखविशिष्टाभिधानादेव ब्रह्मवाक्यमिति । एषा मुख्योपपत्तिरित्येवकारः । चकारात् सदादिभिरपि तस्माद बहीवाक्षिपुरुषः ॥ १।२।१५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १।२।१६ ||
स्वरूपता निर्णय फलतो निर्णयमाह । श्रतोपनिषत्कस्य श्रुतोपनिषद्विद्या येन तस्य प्रविदो या गतिर्देवयानाख्या साक्षिपुरुषविदोप्युच्यते । अथ यदु चैवास्मिन् शव्यं कर्म कुर्वन्ति यदि च नार्चिषमेवाभियन्ति इत्युपक्रम्य चन्द्रमसो विद्युतं तत्पुरुषोमानवः स एतान् ब्रह्म गमयति । एष देवपथो ब्रह्मपथः ( छां. ४/१५/५ ) इत्येतेन प्रतिपद्यमाना इमं १० मानवमावर्तं नावर्तन्ते ( छां. ४१५५ ) इति ब्रह्मविदोप्येष एव मार्गः पुनरावृत्तिरहितः। चकारस्तुक्तसमुच्चयेनाधिकरणपूर्णत्वबोधकः ॥ १।२।१६ ॥ अनवस्थितेरसम्भवाञ्च्च नेतरः ।। १।२।१७ ॥
५
इदमेवाधिकरणं पुनर्निषेधमुखेन विचारयति । ननुपासनापरत्वेपि सर्वमुपपद्यत । तद्धर्मव्यपदेशेनैवोपासनांपपत्तेः । अतः सर्वा उपपत्तयो १५ व्यपदेशिवद्भावेन संगच्छन्त इत्येवं प्राप्त उच्यते ।
इतरो नात्र वाक्यार्थः । अनवस्थितेरस्थिरत्वात् । उपदेशकवाक्यत्वादुपदेष्टुरेव चक्षुर्गतं भवेत् । तथा च वक्तुर्दर्शनाभावादनाप्तत्वं द्रष्टुप - गमे चापगच्छति सद्वितीये सद्वितीयः । उपासनाकाले च सुतरामनवस्थितिः । सद्वितीयोपासनायामपि श्रवणमननयोर्भिन्नविषयत्वादनवस्थितिः । वक्तु२० रेव नियमे गुरोर्निर्बन्धेन सुतरामनवस्थिति: ।
किं च । मनसा ह्युपासनं कर्तव्यं तत्र चासंभव एव । तादृशधर्मवत्त्वं च न संभवतिं । आसुरत्वं च भवेदिति चकारार्थः । तस्मादक्षिस्थाने सहज एव यो भगवानस्ति तत्परमेवैतद्वाक्यमिति सिद्धम् । व्यापकसर्वगतस्य सर्वतःपाणिपादान्तत्वादानन्दमूर्तिर्भगवानेव ब्रह्मवादे २५ त्वेषैव मर्यादा । सगुणवादो ब्रह्मवादाज्ञानादिति ॥ १/२/१७५ ॥