________________
५ अन्तर उपपत्तेरित्यधिकरणम् । [ अ. १ पा. २ सु. १५ मुपासनापरतैव वाक्यस्य युक्ता । अविरोधे हि ब्रह्मपरता । उपास्यत्वेन ब्रह्मधर्माणामन्वयो भविष्यतीत्येवं प्राप्त उच्यते ।
अन्तरोक्षिमध्ये दृश्यत इत्युक्तः परमात्मैव । कुतः उपपत्तेः । उपपर्यंत हि तस्य दर्शनमार्षम् । सर्वत्र ब्रह्म पश्यन् बहिः संनिधाने तस्य ५ स्थानस्योत्कृष्टत्वात्तत्र भगवन्तमुपदिशति - लोकं वाव तेवचन्नहं तु तद्वक्ष्यामि ( छां. ४९४/३ ) इति महदुपक्रमाच्च । प्रतिविम्बमात्रस्य च न पुरुषत्वनियमः । तस्माद्विरोधाभावाद्ब्रह्मवाक्यमेव ॥ ११२/१३ ॥ स्थानादिव्यपदेशाच्च ।। १।२।१४ ॥
६१
एतं संयद्वाम इत्याचक्षते । एतं हि सर्वाणि वामान्यभिसंयन्ति । १० एष उ एव वामनीरेष हि सर्वाणि वामानि नयति । एष उ एव भामनीरेष हि सर्वेषु लोकेषु भाति ( छां. ४।१५/४ ) इति । वामानि कर्मफलानि । तेषामेव मनोहरत्वेन तदर्थं कर्मकरणात् । कर्मफललयः कर्मफलदानं च यतः । इति स्वर्गापवर्गफलदातृत्वमुक्तम् । सर्वलोकेषु भानं च । एष इति तमेवाक्षिपुरुषं निर्दिश्य स्थानादि व्यपदिश्यंत । न हि प्रतिविम्बात्मनः १५ स्थानादिव्यपदेश: संभवति । चकारादेतत्तुल्यवाक्यस्याप्ययमेवार्थः । इन्द्रविरोचनप्रजापतिसंवाद- अथ योयं भगवोप्सु परिख्यायते (छां. ८२७१४) इत्यासुरम् । न तु—य एषोक्षिणि पुरुषा दृश्यते ( छां. ४/१५/१ इत्यादि । तस्मादक्षिपुरुषो ब्रह्मैव ॥ १।२।१४ ॥
२०
सुखविशिष्टाभिधानादेव च ॥ १।२।१५ ।।
ननु किमिति निर्बन्धन ब्रह्मवाक्यत्वं संपाद्यते । उपासनापरत्वे को दोष इत्याशङ्कयाह ।
सुखविशिष्टाभिधानात् । एतदमृतमभयमेतद् ब्रह्म ( छां. ४ । १५/१ ) इति यद्यत्रोपासना विधीयेत - एष आत्मा ( छां. ८|३ | ४ ) इति तदामृतादिवचनं व्यर्थं स्यात् । तद्धर्माणां पूर्वमेव प्राप्तत्वात् । तस्मादमृतमानन्दः । २५ अभयं चिद् ब्रह्म सतूंं सच्चिदानन्दरूप आत्मत्युक्तं भवति । अत एष इत्याक्षिपुरुषं निर्दिश्य सुखविशिष्टमार्भधीयते । सच्चितोर्न ब्रह्मख्यापकत्व -