________________
अ. १ पा. २ सू. ११ ]
अणुभाष्यम् ।
तथात्वात्ततोपि विशिष्टं ब्रह्म प्रकटानन्दत्वात् आतपः परोक्षवादः । काण्डपि तद्वाद इति त्रयाणां ग्रहणम् । अतो युक्त एवायमिति हिशब्दार्थः । नन्वप्रकृतत्वात् कथमेवमिति तत्राह । तद्दर्शनात् । तयो - दर्शनं तद्दर्शनं तस्मात् । जीवब्रह्मणोः प्रतिपादनीयत्वात्-येयं प्रेते विचि५. कित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके । एतद्विद्यामनुशिष्टस्त्वग्राहम् ( कठ. १ । १ ।२० ) इति जीवः पृष्ट: । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद ( कट. ११२ १४ ) इति पृम् । तत्र ब्रह्म निरूप्य जीवं निरूपयन्नुभयोस्तुल्यत्वेन महाभोगं निरूपयन् फलार्थं मध्ये स्वरूपं कीर्तयति । अतो १० ब्रह्मवाक्यमेवेति सिद्धम् ॥ १।२।१९ ॥
1
विशेषणाच ।। १।२।१२ ॥
1
विशेषणानि पूर्वोक्तानि जीवब्रह्मणोरेव संगतानि । अग्रिमं वा आत्मानं रथिनं विद्धि ( कट. १| ३ | ३ ) सांध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ( कठ. १ ३३९ ) इति । जीवप्राप्यं ब्रह्माह । अत उभयोरव सर्व१५ व्यावृत्त्या कथनादग्रिमग्रन्थपर्यालोचनयापीदं ब्रह्मवाक्यमेव । द्वा सुपर्णेति निःसंदिग्धम् । चकारः प्रकरणांत सर्वोपपत्तिसमुच्चयार्थः || १२|१२|| ४ ||
५ अन्तर उपपत्तेरित्यधिकरणम् । अन्तर उपपत्तेः ॥ १।२।१३ ॥
20
य एपोक्षिणि पुरुषा दृश्यते । एष आत्मति होवाच तदमृतमभयइति । तद्यद्यप्यस्मिन्सर्पिर्वादिकं वा सिञ्चति वर्त्मनी एवं गच्छति ( छां. ४/१५/१ ) इत्यादि अयं । तत्र संशयः । प्रतिबिम्बपुरुषस्य ब्रह्मत्वेनोपासनापरमिदं वाक्यं ब्रह्मवाक्यमेवेति वा । विरुद्धार्थवाचकत्वासंदेह: । तत्र दृश्यत इति वचनात्प्रतिबिम्ब एवायं ब्रह्मप्रकरणस्य च समाप्तत्वादेपा तस्मद्विद्या आत्मविद्या चेत्युपसंहारदर्शनात् तत्सिध्यर्थ
12-C, Saud त्रि. म. read अग्रिमं वाक्यम for अग्रिमं वा ।