________________
५९
1
1
४ गुहां प्रविष्टावित्यधिकरणम् । [ अ. १ पा. २ सु. ११ युक्तेति । तथापि कस्य निर्णायकत्वं प्रकरणस्यार्थस्य वेति । उभयोरपि संदिग्धत्वादयुक्तो विचार इति चेत् । उच्यते । संदेहवारकं शास्त्रं पदशक्तया तु निर्णयः । जीवादुत्कर्षशब्देन द्वयोर्वाक्येपि न क्षतिः ।। १६ ।। गुहातपशब्दाभ्यामित्यर्थः । ऋतं पिबन्तावित्यत्रैवं संशयः । किं जीवद्वयं निरूपयत्याहोस्विज्जीवब्रह्मणी वेति । तत्र ब्रह्मप्रकरणस्य सामान्यत्वात् यस्त्वविज्ञानवान् भवतीत्यग्रे विद्वदविद्वतोर्वक्तव्यत्वात् तदर्थमुभयोः प्रथमनिर्देश उचितः । मन्त्रेपि ऋतं स्वर्गापवर्गलक्षणं सुखम् | मार्गद्वयस्यापि विहितत्वात्सुकृतलोकत्वम् । गृहा तत्त्वविचारो हृदयं वा । जात्यपेक्षया त्वेकवचनम् । परमपरार्धं सत्यलोकः । तत्रोभयोर्भोगात् । अविद्यया पिहितप्रकाशत्वादविदुषश्छायात्वम् । ब्रह्मज्ञानेनातिप्रकाशत्वादातपत्वं विदुषः । अत एव विदुषः स्वरूपं ब्रह्मविदो वदन्ति । पञ्चाग्नयस्त्रिणाचिकेताश्वेतरम् । इन्द्रियमनसोस्त्वचेतनत्वान्न वाक्यार्थसंगतिः । वाक्यार्थयोगे हि विशेषणनिर्णयः । १५ तस्माद्बद्धमुक्तजीव परतयोपपन्नत्वा तत्प्रकरणपाठान्न ब्रह्मवाक्यमिति एवं प्राप्त उच्यते ।
५
१०
गुहां प्रविष्टवात्मानौ । गुहा हृदयाकाशः । तत्र सकृदेकस्मि न्प्रविष्टो जीवपरमात्मानावेव । अनेन जीवेनात्मनानुप्रविश्येत्युभयोः प्रवेशश्रवणात् । न ह्येकस्मिन् हृदयाकाशे जीवद्वयं प्रवेष्टुमर्हति । अर्थस्त्ववं २० संभवति । पूर्वाधिकरणं यथाभिलषितभोगी भगवति साधितः । प्रकारान्तरेणापि ऋतं सत्यं परं ब्रह्मेति ऋतसत्ययोर्ब्रह्मत्वप्रतिपादनात् स्वरूपामृतपातारौ । सुकृतमपि ब्रह्मैव तस्मात्तत्सुकृतमुच्यते ( तै. २७ ) इति श्रुतेः । स एव लोक उपचारात् षष्ठी । अक्षरं वा परमपरार्द्धापरि तत्र - त्यानां परिदृश्यमानत्वात् । छायाप्रतिसारूप्यं सायुज्यं गतस्य जीवस्यापि
1-A reads चेति for वेति ।
7-S reads विद्वदविदुषोः for विद्वदविद्वताः ।
8-A and B read प्रथमं for प्रथम |