________________
अ. १ पा. २ सु. ९] अणुभाज्यम् ।
५८ मृत्युसंबन्धमात्रेण भगवति भोक्तरि प्रवेशार्थं योग्यरूपमेवौदनत्वं प्राणानां तत्रैव समवलयान्मृत्युरपि तत्रैव लीनोग्रे जन्ममरणाद्यभावाय भगवत्येव प्रविशति । तस्मादस्मिन् वाक्ये ब्रह्मक्षत्रमृत्यूनां भोग्यत्वेन ग्रहणादत्ता भगवानेवेति सिद्धम् ॥ १।२।९ ॥ ५ ननु किमित्येवं प्रतिपाद्यते । पूर्वपक्षन्यायेन यमोन्यो वा मृत्यु साधनीकृत्य स्ववशे सर्वं करोतीति जीववाक्यमेव किं न स्यादित्यत आह ।
प्रकरणाच ॥ १२॥१०॥ प्रकरणं हीदं ब्रह्मणः-न जायते ( कठ. १।२।१८) इत्यारभ्य१० आसीनो दूरं व्रजति ( कठ. १।२।२० ) इत्यादिना माहात्म्यं
वदन्नन्ते-यस्य च ब्रह्म क्षत्रं च- इत्याह । अतः प्रकरणानुरोधात् पूर्वोक्तप्रकारेण ब्रह्मवाक्यत्वमिति । अन्यथा प्रकृतहानाप्रकृतकल्पने स्यातामिति चकारार्थः ॥ १।२।१० ॥ ३ ॥
४ गुहां प्रविष्टावित्यधिकरणम् । १५ गुहां प्रविष्टावात्मानौ हि तदर्शनात् ॥ १।२।११ ॥
तस्यैवाग्रे पठ्यते । ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे । छायातपौ ब्रह्मविदो वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेताः ( कठ. १।३।१ ) इति । किमिदं ब्रह्मवाक्यमाहोस्विदन्यवाक्यमिति ।
अस्य वाक्यस्योत्तरशेषत्वे जीवप्रकरणपठितत्वान्न ब्रह्मवाक्यत्वम् । पूर्व२० शेषत्वे तु ब्रह्मवाक्यमिति हि प्रकरणनिर्णयः । मध्ये पाठादेवं संदेहः ।
अर्थविचारे तु द्विवचननिर्देशात्पूर्वशेषत्वे बद्धमुक्त जीवौ भविष्यतः । उत्तरशेषत्वे त्विन्द्रियमनसी । उभयथापि न ब्रह्मवाक्यम् । द्वयोर्मुख्यत्वेन प्रतिपादनात् । ब्रह्मवाक्यत्वेपि न प्रयोजनसिद्धिः । अथ मन्यत उपनिषत्पाठादन्यत्रानिर्धारानीवब्रह्मपरत्वेपि तयोरभेदात् ब्रह्मपरतैव वाक्यस्य
11-C and S om. यस्य after अन्ते ।