________________
५७ ३ अत्ता चराचराधिकरणम् । [अ. , पा, २ सु. ९ पेक्षित इति । न तु तस्य भोगाभाव एव । अग्रिमाधिकरणविरोधात् । यथेन्द्रियाद्यधिष्ठातृदेवतानाम् । तत्त्वमस्यादिवाक्येन जीवस्यापि तथात्वे तस्यापि तदेव भविष्यति ॥ १।२८॥२॥
३ अत्ता चराचराधिकरणम् । अना चराचरग्रहणात् ॥ १।२।९॥ कठवल्लीषु पठ्यते । यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः । मृत्युर्यस्योपसे चनं क इत्था वेद यत्रं सः। ( कट. १।२।२५) इति। अत्र वाक्ये ब्रह्मक्षत्रयोरोदनत्वं वदन् यच्छब्दार्थस्य भोक्तृत्वमाह । तत्र संशयः । किं जीवो ब्रह्म वेति । सच्चिदानन्दरूपत्वं सर्वोपास्यत्वं पूर्वाधि१० करणद्वयेन सिद्धम् । सर्वभोक्तृत्वं साधयति । ब्रह्मक्षत्रयोरशक्यवधयोः सर्वमारकस्य च मृत्योर्भक्षयिता जीवो न भवत्येवेति कथं संदेह इति चेत् । उच्यते । ओदनोपसेचनरूपकत्त्वाज्जीवधर्मत्वं स्थानाज्ञानाच्च । न हि सर्वगतस्य स्वहृदयेपि प्रतिभासमानस्य क इत्था वेद यत्र स इत्य
ज्ञानमुपपद्येत । अलौकिकसामर्थ्याच्च संदेहः । तत्र निषिद्धत्वाल्लौकिक१५ भोजनवनिरूप्यमाणत्वात् स्थानाज्ञानाच्च कश्चिदुपासनोपचिताल्लौकिक
सामर्थ्यो महादेवादिरत्ता भविष्यति । नतु तद्विरुद्धधर्मा भगवान् भवितुमर्हत्याक्लिष्टकर्मत्वादिधर्मवान् । तस्माज्जीव एवोपासनोपचितमहाप्रभावो वाक्यार्थ इत्येवं प्राप्तेभिधीयते ।
___ अत्ता चराचरग्रहणात् । अत्ता भगवानेव । कुतः । चराचरग्रह२० णात् । चरं सर्वप्राणिवधार्थं परिभ्रमन्मृत्युः । अचरं ब्रह्मक्षत्ररूपं कस्या
प्यचाल्यं तयोरत्ता न जीवो भवितुमर्हति । यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनादिति न्यायात् । अस्मदादिप्रतिपत्त्यर्थं तु लौकिकवरचनं भोक्तृत्वाय । प्रलयकर्तृत्वान्नायुक्तत्वम् । सर्वत्र विद्यमानस्याप्यज्ञायमानत्वात् फलतः स्थानाज्ञानमुक्तम् । ब्रह्मक्षत्रयोरपि मोक्षापेक्षित्वान् 14-B and S read उपपद्यते for उपपद्येत । 24-C and S read मोक्षापेक्षितत्वात् for मोक्षापेक्षित्वात् । वि. म. मोक्षा
.पेक्षत्वात् । ८ [अणुभाष्य ]