________________
अ. १ पा. २ सू. ६ ]
अणुभाष्यम् ।
५६
तथैवार्जुनविज्ञानात् करिष्ये वचनं तव ( भ. गी. १८/७३ ) इति । चकारात्तन्मूलमूतनिःश्वासोप्युच्यते । व्यासस्यापि भगवज्ज्ञानांशत्वाददोषः ॥ १|२|६ ||
उपक्रमबलीयस्त्वमाशङ्कय परिहरति
अर्भको कस्त्वात्तद्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च | १|२|७ ॥
५.
ननु व्यापकस्येश्वरस्य हृदयदेशस्थितिरयुक्ता व्रीह्यादिरूपत्वं च । अतोर्भकमल्पकमको हृदयस्थानं यस्य तत्त्वाद बीह्यादितुल्यत्वाच्च न परमात्मा वाक्यार्थं इति चेत् । न । निचाय्यत्वात् । पूर्वं प्रथमदूषणं परि१० हरति । हृदये ज्ञातुं शक्यत इति तदायतनत्वेन प्रतिपाद्यते निदिध्यासनानन्तरं हि साक्षात्कारस्तदन्तःकरण एवेति निचास्यत्वम् । भक्तौ बहिरपीति विशेष: ॥ द्वितीयं परिहरति । एवं व्योमवत् । एवं ब्रीह्यादितुल्यतया यत्प्रतिपादनं चतुर्विधभूतान्तरत्वख्यापनाय यथा चत्वार उपरवाः प्रादेशमात्रा इति तथा तहृदयाकाशे प्रकटस्य सच्चिदानन्दस्वरूपसर्वत:१५ पाणिपादान्तस्य तत्स्वरूपमिति । पूर्वपक्षसिद्धान्तयोश्चकारद्वयमेतादृशवाक्यान्तरे पूर्वपक्षसिद्धान्तयोराधिक्योफ्पत्तिसमुच्चयार्थं तेनात एव प्राण इतिवदधिकरणान्तरमपि सूचितमिति ॥ १२७ ॥
बाधकमाशङ्कय परिहरति
२०
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ ११२८ ॥
यदि सर्वेषां हृदये भगवाञ् जीववत्तिष्ठेत्तदा जीवस्येव तस्यापि सुखदुःखसाक्षात्कारस्तत्साधनादिपरिग्रहश्च प्राप्नोतीति चेत् । न । वैशेप्यात् । विशेषस्य भावो वैशेष्यं तस्मात् । सर्वरूपत्वमानन्दरूपत्वं स्वकर्तृत्वं विशेषस्तद्भावो ब्रह्मणि वर्तते न जीव इति जीवस्यैव भोगो न ब्रह्मण इति वैशेष्यपदादयमर्थः सूचितः । अपेक्षित एव भोगो नान
S- om. अल्पर्क before ओकः ।
10-क om. from हृदये to तदन्तःकरण एवेति before निचाय्यत्वम् ।