________________
२ शब्दविशेषाधिकरणम् ।
२ शब्दविशेषाधिकरणम् । शब्दविशेषात् ॥ १।२।५ ॥
इमाम्नायते । यथा व्रीहियवो वा श्यामाकां वा श्यामाकतण्डलो वैवमयमन्तरात्मन् पुरुषो हिरण्मयः (श. बा. १०।६।३।२ ) इति । ५ तत्र संदेहः । हिरण्मयः पुरुषः किं जीव उत ब्रह्मेति । उपक्रमबलीयस्त्वं जीव उपसंहारबलीयस्त्वं ब्रह्मेति । यत्रकस्यान्यपरत्वे नैकार्थता संभवति तद्बलीयस्त्वमिति सिद्धं पूर्वतन्त्रे । तत्र चतुर्विधभूतनिरूपणार्थं जीवस्यैवारामात्रस्यान्तर्हदये प्रतिपादकमिदं वचनं फलतो हिरण्मयत्वमिति न त्वेतादृशाभाससमानत्वं ब्रह्मणां युक्तमतो जीवप्रतिपादकमेवेदं वाक्यमिति १० प्राप्त उच्यते ।
[ अ. १पा. २ मू ६
शब्दविशेषात् । हिरण्मयः पुरुषो न जीवस्य फलमपि । तत्प्राप्तेरेव फलत्वात् । नाप्ययं नियम: - तस्यामेव मूर्ती लय इति । अतः शब्देनैव विशेषस्योक्तत्वान्न हिरण्मयः पुरुषो जीवः || १ | २२५॥
ननु हृदये विद्यमानत्वादभिमान्येव जीवो युक्त इति चेत्तत्राह स्मृतेश्व ॥ १।२।६ ॥
ईश्वरः सर्वभूतानां हृदेशेर्जुन तिष्ठति (भ.गी. १८६१ ) इति । ननु सर्ववेदानां यन्निश्वासत्वं तस्य भगवतो वाक्यं कथं स्मृतिरिति उच्यते । तं त्वौपनिषदं पुरुषं पृच्छामि (बृ. ३।९।२६ ) इति श्रुतेः केवलोपनिषद्वेद्यं ब्रह्म न प्रमाणान्तरवेद्यम् । ततश्वार्जुनस्य शिष्यरूपेण २० प्रपन्नस्य पुष्टिभक्तत्वाभावाद्भगवद्वाक्ये निर्विचिकित्सविश्वासाभावाद रथि - त्वेनैव स्थाप्यत्वान्न तादृशाय तादृशंदेशकालयोरुपनिषदामवक्तव्याद् गुरुरूपतादृशरूपं निःश्वसितंवेदोद्गमजनकं स्मृत्वा तदर्थमपि स्मृत्वा भगवान्पुरुषोत्तमी वाक्यान्युक्तवान् स्मृतिरूपाणि ।
१५
२५
ततो ब्रह्मविचार तान्यप्युदाहृत्य दन्त्यते । पुनश्च भगवांस्तदधिकारेण ब्रह्मविद्यां निरूप्य स्वकृपालुतया सर्वगुह्यतमनित्यादिना भक्तिप्रपत्ती एनोक्तवान् । अताङ्गत्वेन पूर्वं सर्वनिर्णया उक्ताः इत्यध्यवसेयम् ।