________________
अ. १ पा. २ सु. २]
अणुभाष्यम् ।
ननु क्रतुमयः पुरुष इति यथासंकल्पमग्रिमदेहकथनाल्लोकान्तरभाविफलार्थमन्योपासनैव युक्ता । न तु ब्रह्मज्ञानस्य तादृशं फलमित्याशङ्कय परिहरति
१०
''
विवक्षितगुणांपपत्तेश्व ॥ १।२।२ ॥
विवक्षिता लोकान्तरे तादृशरूपप्राप्तिः सा प्रकृतेप्युपपद्यते । भगव त्स्वरूपलाभात्सारूप्यलाभाद्वा । न च व्याप्तिरुक्तेत्यधमप्राप्त्युपायो युक्तः 1 सत्यसंकल्पादिवचनं च ब्रह्मवाक्यत्वपोषकमिति चकारार्थः ॥ १२२ ॥ नन्वेतावतापि नैकान्तता ब्रह्मवाक्यत्वमुपपत्तेरुभयत्रापि तुल्यत्वादित्याशङ्कय परिहरति
अनुपपत्तेस्तु न शारीरः ॥ १।२|३ ||
न च प्राणशरीररूपां जीवो भवति तिरोहितानन्दत्वेन निराकारत्वात् । अध्यासेन तथात्वे त्वनुपास्यत्वमेव । इदानीमेवोपासकस्यापि तथात्वात् । न च प्राणांदलौकिकत्वम् । उपदेशानर्थक्यप्रसंगात् । अत आनन्दरूपप्राणशरीररूपत्वाभावान्न वाक्यार्थी जीवः । पूर्वपक्षस्यात्रैव निवृ१५ त्तत्वात्तुशब्दः। विज्ञानमय तु प्राप्ताप्राप्तविवेकेन धर्मस्यैवोपासना || १ | २|३|| ननु प्रामव्यतादृशरूपफलाभिप्रायं भविष्यतीति परिहरति
कर्मकर्तव्यपदेशाच्च ॥ १।२।४ ॥
एतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्वा न विचिकित्सा - स्तीति ह स्माह शाण्डिल्यः ( छां. ३ | १४|४ ) इत्यये फलवाक्यम् । एतं २० प्राणशरीररूपं कर्मत्वेन ध्येयत्वेन प्राप्यत्वेन च व्यपदिशति । कर्तृत्वेन च शारीरं व्यपदिशति । न च भजनीयरूपाकथने तादृशं फलं सिध्यतीति चकारार्थः । अधिकरणसंपूर्णत्वद्योतक || १ | २२४ ॥ १ ॥
16 AM reads फलवक्त फल |